________________
विजं तंमि पच्चओ होइ ॥ कत्ता वि हु तदभावे, तदभिप्पाओ कुणइ चिट्ठ॥ १७५॥" [सा वा शब्दार्थ एव तयापि यत्तस्मिन्प्रत्ययो भवति ॥ कर्तापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ॥] अत्र शब्दार्थ इति शब्दो वक्तुः समुदीरितवचनरूपस्तस्यार्थः शब्दार्थः श्रोतृगतज्ञाने प्रतिभासमानस्तदभिधेयवस्तुस्वरूपः श्रुतज्ञानमिति तात्पर्य, तथा च कारणे कार्योपचार आश्रयणीय इति हृदयम् । वस्तुतः शब्दस्यार्थः प्रयोजनमिति सम्मुख एवार्थः ॥ ननु मूकेतरभेदस्याऽवधारणगर्भोऽयमर्थः कुतो न स्याद्यत श्रुतज्ञानं मुखरमेव मतिज्ञाने तु न नियम इति चेत्, न, श्रुतज्ञानस्यापि सर्वस्यामुखरत्वादनन्तभागस्यैव निबन्धादियोग्यतया मुखरत्वोक्तौ चाभिलाप्यानभिलाप्यविषयविभागादनतिरेकप्रसङ्गादितिदिग् । ननु तथापि खपरप्रत्यायकत्वा प्रत्यायकत्वाभ्यां मतिश्रुतहेतूनामेव विशेष उक्तोन तुमतिश्रुतयोः न च श्रुतमपि शब्दप्रयोगद्वारा परप्रत्यायकमितिवाच्यम्,मतिज्ञानस्यापि तद्वारा तथात्वादितिचेत्,न,स्वकारणद्वारा परस्मै स्वसमर्पकत्वस्य विशेषकत्वात् । असार्वत्रिकमिदमभेदकमिति चेत्, न, तजातीयत्वस्य सार्वत्रिकस्य भेदकत्वात् ॥५७॥ उक्तो मूकेतरभेदान्मातश्रुतयोर्भेदस्तत्प्रतिपादनेन च कृतं सर्वप्रकारैर्भेदनिरूपणमित्याह
मियो मतिश्रुतभिदा, तदेवं सर्वहेतुभिः ॥ दिशा प्रदर्शिताकम्प-सम्प्रदायपवित्रया ॥ ५८॥
स्पष्टः॥ नवरं प्रदर्शितेति क्तप्रत्ययबलेन मतिश्रुतभेदस्य सिद्धत्वज्ञानेन प्रतिवन्धकजिज्ञासानिवृत्त्या मतिस्वरूपनिरूपणप्रयोजकजिज्ञासा शिष्याणां कृता भवति ॥ ५८॥ सविवरणे श्रीज्ञानार्णवप्रकरणे प्रथमस्तरङ्गः सम्पूर्णः॥
प्रौढिं ये विबुधेषु जीतविजयप्राज्ञाः परामैयरु-स्तत्सातीर्थ्यभृतो नयादिविजयप्राज्ञाः श्रयन्ति श्रियम् ॥ तेषां न्यायविशारदेन शिशुना ज्ञानार्णवे निर्मिमते, पूर्णे भाष्यवचोमृतैरतितरा-माद्यस्तरङ्गोऽभवत् ॥१॥
मूकेतरमेदामतिश्रुतभेदनिरूपणसमाप्तिसर्वप्रकारैर्मति
श्रुतभेदनिरूपणो४ पसंहारः॥
CRORROCESSTORESE RECk
सर