________________
सविवरण | श्रीज्ञाना
र्णव
प्रकरणम् ॥
115411
त्वेनापि रूढं तदपि शब्दरूपमक्षरमयम्, उच्छ्वसितादिरूपं चानक्षरं भावश्रुतमपि विकल्पात्मकत्वाद् भावाक्षरेण साक्षरं, द्रव्याक्षरास्वभावत्वाच्च तेनानक्षरमित्यनयोर्भेदः ॥ तदिदमाह -" उभयं भावक्खरओ, अणक्खरं होज वंजणक्खरओ || मइनाणं सुतं पुण, उभयं पि_ अणक्खरक्खरओ ॥ १७० ॥ " [ उभयं भावाक्षरतोऽनक्षरं भवेद्व्यञ्जनाक्षरतः ॥ मतिज्ञानं श्रुतं पुनरुभयमप्यनक्षराक्षरतः ] ।। ५४ ॥ पर्यवसितार्थमाह
द्रव्यश्रुतव्यवहृते-र्भावाभावे विभिन्दतः ॥ मतिश्रुते इतरथा, व्यवहारस्य सङ्करात् ॥ ५५ ॥ मतिज्ञानस्य द्रव्यश्रुतव्यवहाराविषयत्वादेव श्रुतज्ञानाद् भेदः, अन्यथा द्रव्यश्रुतमितिवद् द्रव्यमतिरिति व्यवहारः स्यादर्थाऽभेदाद्, अथ भेदेऽपि मतिकारणे शब्दे द्रव्यमतित्वेनाव्यवहारे इच्छेव बीजमित्यभेदेऽपि व्यवहर्तुरिच्छेव नियामिकेति चेत्, न, भेदेऽसाधारण्येनापेक्षाया व्यवजिहीर्षा बीजत्वाद्, अभेदे तदसम्भवाद्, एवं च मतिज्ञानं श्रुतज्ञानाद् भिद्यते द्रव्यश्रुतव्यवहाराविषयत्वाद्, अवधिज्ञानवत्, श्रुतज्ञानं वा मतिज्ञानाद् भिद्यते द्रव्यश्रुतव्यवहारविषयत्वाद्, व्यतिरेकेऽवध्यादिदृष्टान्त इति प्रयोगः । न च द्रव्यश्रुतव्यवहारविषयत्वं शब्द एवेत्यपक्षधर्मत्वं हेतोस्तथात्वेऽपि हेतौ पक्षीयसाध्यान्यथानुपपत्तिप्रतिसन्धानेन पक्षीयसाध्यसिद्धेः, अत एव जलचन्द्रेण नभश्रन्द्रानुमानमितिप्राञ्चः ॥ अस्तु वा द्रव्यश्रुतव्यवहारघटककारणतानिरूपितकार्यताशालित्वादिति हेत्वर्थः ॥५५॥ उक्तोऽक्षरानक्षरभेदान्मतिश्रुतयोर्भेदः, अथ मूकेतरभेदात्तमभिधित्सुस्तदर्थमुपन्यस्यापाततो दूषयतिस्वपरज्ञप्तिहेतुत्वा-त्तयोर्मुकान्यवद्भिदा । चेष्टादिमतिहेतोर -प्यन्यार्थत्वान्न युज्यते ॥ ५६ ॥ द्रव्याक्षररूपस्य श्रुतस्य परप्रतीतिजनकत्वान्मतेस्तु तदभावेनात्ममात्रप्रत्यायकत्वान्मूकामूकयोरिव तयोर्भेदमन्येऽभिदधति,
अक्षरानक्ष
रतो मतिश्रुतभेदनिरूपणसमा.
प्तिः मूकेत
रभेदान्मति
श्रुतभेदनि
|रूपणम् ॥
।। २५ ।।