________________
GIRMALKARNIRACLECRECRUCT
तच्चिन्त्यम्, यतः श्रुतज्ञानं हि न स्वतः परप्रत्यायकं किं तु श्रुतज्ञानकारणे शब्दे तदुपचारं कृत्वा तस्य परप्रत्यायकत्वमभिधीयत इति परत एव तत्तथा, एवं च करवक्त्रसंयोगादिका अपि चेष्टा अनक्षररूपत्वेन मतिहेतुतां भजन्त्यः परस्मिन् भुजिक्रियादिप्रतीतिं जनयन्ति, इति मतेरपि परतः परप्रत्यायकत्वमविशिष्टम् । आह च-"सपरपञ्चायणओ, भेओ मूएतराण वाभिहिओ॥ जं मृअंमइनाणं, सपरप्पञ्चायगं सुत्त॥१७॥" [स्वपरप्रत्यायनतो भेदो मुकेतरयोरिवाभिहितः॥ यद् मूकं मतिज्ञानं, स्वपरप्रत्यायक श्रुतम् ] "सुअकारणंति सद्दो, सुअमिह सो य परवोहणं कुणइ । मइहेअवो वि हि परं, बोहिंति कराइचेट्ठाओ ॥ १७२॥" [श्रुतकारणमिति शब्दा, श्रुतमिह स च परबोधनं करोति ॥ मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ] "न परप्पबोहयाई, जं दोवि सरूवओ मइसुआई ॥ तक्कारणाई दोण्ह वि, बोहिंति तओ ण भेओ सिं ॥ १७३ ॥" [न परप्रबोधके यद् द्वे अपि स्वरूपंतो मतिश्रुते ॥ तत्कारणानि द्वयोरपि बोधयन्ति ततो न भेदोऽनयोः॥] ॥ ५६ ॥ वस्तुस्थितिमुपदर्शयतिपरप्रत्यायने शब्दो, ह्यसाधारणकारणम् ॥ चेष्टापि शाब्दहेतुळ (त्वात्), तदियं युज्यते गतिः॥५७॥
यद्यपि द्रव्यश्रुतं श्रुतज्ञानं जनयितुमान्तरिकान्मतिविवर्तानवग्रहेहादीन् जनयति तथाप्यक्षररूपतया मुख्यत्वात् श्रुतज्ञानस्यैव तदसाधारणं कारण, करादिचेष्टास्तु न मतिज्ञानस्यैवासाधारणं कारणं, 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पस्यापि जनकत्वात्, अथवाऽऽचारादिपुस्तकाक्षरस्य गुरुजनोदीरितशब्दस्य वा श्रुतस्य यथा मोक्षं प्रत्यसाधारणकारणानां क्षायिकज्ञानदर्शनचारित्राणां कारणत्वं न तथा परप्रत्यायिकानां चेष्टादीनामिति विशेषः ॥ वस्तुतः शब्दस्येव चेष्टादीनामप्यर्थविशेषेण सह सम्बन्धग्रहात्पदार्थोपस्थितिद्वारा शाब्दप्रतीतिजनकत्वमेव, न तु मतिज्ञानजनकत्वं,
मुकेतरभेदान्मतिश्रुतभेदनिरूपणेऽन्याभिप्रेतमपाकत्य स्वाभी
ष्टस्योपदर्शनम् ॥
SEC4%955