SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ %%%%%%%%% समत्था, तिवग्गसुचत्थगहियपेयाला | | उभओलोगफलवई विणयसमुत्था हव बुद्धी । । ९४३ ॥ | " ( आव ० भाष्य [भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतसारा ( प्रमाणा) ।। उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ] इतिवचनाद् वैनयिक्यामश्रुतनिश्रितायामपि भुताभ्यासापेक्षास्ति, तथापि श्रुतानुबुद्धक्षयोपशमजन्यावृत्तिश्रुतानुसारह निवृत्तिजातिमज्ज्ञानत्वं श्रुतोद्बुद्धक्षयोपशमजन्यत्वाव्यभिचारि तादृशजातिमज्ज्ञानत्वं वा श्रुतनिश्रितत्वमित्यत्र तात्पर्यम्, अत एवाह “किन्तु सकृच्छुतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याश्रुतनिश्रितं तदुच्यत इत्यदोष" इति इदमेवाभिप्रेत्य चाह भाष्यकारः ॥ “जइ तं सुएण ण तओ, जाणइ सुअनिस्सिअं कह भणियं ॥ जं सुअकओवयारं, पुव्वि इण्हिं तयणवेक्खं ॥ १६८ ॥ | " [ यदि तत् श्रुतेन न स जानाति श्रुतनिश्रितं कथं भणितं १ ॥ यत् श्रुतकृतोपचारं, पूर्वमिदानीं तदनपेक्षम् ] “पुव्वि सुअपरिकम्मिअ- मइस्स जं संपयं सुआईयं ॥ तं निस्सिअमियरं पुण, अणिसिअं महचक्कं तं ॥ १६९ ॥ [ पूर्व श्रुतपरिकर्मितमतेर्यत्सांप्रतं श्रुताततिम् ॥ तन्निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ।।] यद्यपि विशेषणधीत्वेन श्रुतानुसारो विशिष्टेऽश्रुतनिश्रितेऽपि पदधत्वेन च न श्रुतनिश्रितेऽपि तथापि श्रुतादवगतमिदमिति प्रतीतिसाक्षिको विषयताविशेष एव श्रुतानुसारोऽत्र ग्राह्यः ॥ ५३ ॥ नन्वेवं यदि श्रुतनिश्रिताऽश्रुतनिश्रिता वा मतिरवग्रहरूपा निरभिलापा, हादिरूपा च साभिलापा, श्रुतमपि च प्रागुक्तरीत्या द्विविधं तर्हि कोऽनयोर्भेद ? इति सुहृद्भावेन पृच्छाम इति चेत्, उच्यतेद्विविधापि मतिस्तस्माद्, द्विरूपैवेति का भिदा । तद् द्रव्याक्षर भेदेन, भावनीया भिदाऽनयोः ॥ ५४ ॥ यद्यपि भावाक्षरेणाऽवग्रहादिरूपमतेर्भावद्रव्याक्षराभ्यां च श्रुतस्य द्वैविध्यमापततोऽविशिष्टं, तथापि मतौ पुस्तकादिगतं ताल्वादिव्यापारजन्यं च द्रव्यश्रुतं नास्त्येव द्रव्यश्रुतस्य द्रव्यमतित्वेनारूढत्वादिति, द्रव्याक्षरेणाऽनक्षरैव मतिः, श्रुतं तु द्रव्यश्रुत अक्षरानक्षरतो मति श्रुतमेदनिरूपणे श्र. निश्रित त्वानि श्रितत्वयोर्निरूपणम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy