________________
सविवरणं श्रीज्ञाना
णेवप्रकरणम् ॥ ॥२४॥
अक्षरानक्ष
रतो मतिश्रुतमेदनिरूपणे परविप्रतिपत्तिखण्ड
नम॥
ऐस' इति (२) सूत्रमुपतिष्ठत इत्युपपादितं भवति तथा च परादीनां बलवत्वव्याप्तौ सावकाशभिन्नत्वं सङ्कोचकविशेषणं देयमिति व्युत्पादितं भवति,एवं च निरवकाशस्थले सावकाशप्रवृत्तेरसाधुत्वज्ञापकतयाऽस्योपयोगो नतु तत्प्रवृत्तिप्रतिबन्धकतया,अज्ञेनभ्रान्तेन वा कृतस्य तादृशप्रयोगस्य साधुत्वप्रसङ्गात्, तदसाधुत्वज्ञापकान्तरकल्पने गौरवाद्, व्युत्पन्नस्य तथाप्रयोगकारणविधटकतया तदुपयोग इत्यपि कश्चित् ॥ किश्चाऽवग्रहस्थले सावकाशं मतिज्ञानमपि कथं कल्पनीयमिति चेत्, न, क्लप्तश्रुतकारणाभावात् क्लृप्त मतिकारणसच्चाच्च, मतिज्ञानमेव तदोत्पत्तुमर्हतीति तात्पर्यात, अपि चाऽक्षरानुगता श्रुतनिश्रिता मतिः, अन्या त्वश्रुतानिश्रितेत्यम्युपगमे औत्पत्तिक्यादेरपि श्रुतनिश्रितत्वप्रसङ्गादपसिद्धान्तः॥ आह च-"अह सुयओ वि विवेगं, कुणओ ण तयं सुअं सुझं णत्थि ॥ जो जो सुअवावारो, अनो वि तओ मई जम्हा ॥ १६५॥"[अथ श्रुततोऽपि विवेकं, कुर्वतो न तच्छृतं श्रुतं नास्ति । यो यः श्रुतव्यापारोऽन्योऽपि सको मतिर्यस्मात् ] "मइकाले वि जइ सुअं, तो जुगवं मइसुओवओगा ते ॥ अह नेवं एगयर, पवज्जओ जुज्जए ण सुअं॥१६६॥" [मतिकालेऽपि यदि श्रुतं ततो युगपन्मतिश्रुतोपयोगी ते ॥ अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ] "जइ सुअनिस्सिअमक्खर-मणुसरओ तेण मइचउक्कं पि ॥ सुअनिस्सिअमावलं, तुह तंपि नमक्खरप्पभवं ॥१६७ ॥" [यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि ॥ श्रुतनिश्रितमापनं तव तदपि यदक्षरप्रभवम् ] ॥ ५२॥ ननु यद्यक्षरानुगतत्वं न श्रुतनिश्रितत्वं तर्हि किमन्यदिति जिज्ञासायामाह
श्रुताऽभ्याससमुद्बुद्ध-क्षयोपशमसम्भवम् ॥ श्रुतानुसारहीनं प-तदेव श्रुतनिश्रितम् ॥५३॥ श्रुतानुसारहीनं श्रुतनिश्रितमित्युक्ते औत्पत्तिक्यादावतिन्याप्तिस्तद्वारणाय श्रुताभ्यासेति विशेषणं, यद्यपि "भरनित्थरण
CEREGIOUS
R
॥ २४॥