________________
अक्षरानक्ष
PERIERREGISTRI
रतो
નનનનનનન
पर्यायविवेकः कथं नु भवेत् १ ॥ ५० ॥ अथैवं प्रान्तस्योचरं निराकुरुते
श्रुतनिश्रितभावेन, मतिरेषा यदि श्रुतम् ॥ तवग्रहरूपैव, मातिरन्यच्छ्रतं भवेत् ॥५१॥
श्रते हि मतिर्विधोपदिष्टा श्रुतनिमित्तमबग्रहादिचतुष्टयमश्रुतनिश्रितमौत्पत्तिक्यादिचतुष्टयं चेति ॥ तत्र चाक्षररूपतया श्रुतब्यापारात्मकं श्रुतनिश्रितमीहादिकं श्रुतमेव, मतिस्त्वन्यैवेत्यनक्षरमय्येव सेति पराशयोऽयुक्तः, अवग्रहरूपाया एव मतेः पर्यवसानप्रसङ्गादक्षररूपायाः श्रुतव्यापारात्मकत्वेन श्रुतत्वाद्, आह च-" सुअनिस्सिअवयणाओ, अह सो सुयओ मओ ण बुद्धीओ ॥ जइ सो मुअवावारो, तओ किमनं मइमाणं ॥ १६४ ॥" [श्रुतनिश्रितवचनादथासौ श्रुततो मतो न बुद्धेः ॥ यदि स श्रुतव्यापारः ततः किमन्यन्मतिज्ञानम् ॥]॥५१॥ अभिप्रायान्तरं निराकुरुते
श्रुतोदितविवेकश्चे-न्मतिरेवं श्रुतोच्छिदा ॥ योगपद्यं द्वयोर्भावे, एकदा चोपयोगयोः ॥५२॥ यदि हि मत्यमावभिया श्रुतानुसारी ईहादिविशेषोऽप्यक्षरात्मकत्वान्मतिरेवेष्यते तद्दनक्षरमेव श्रुतं मृगयमाणस्य कथं तदाशापूर्तिस्तस्यैवाभावाच्छूतजन्यस्याप्यक्षरात्मकत्वेन मतित्वाद् । अथ स्थाणुपुरुषविवेककाले तदा मतिः श्रुतं चेत्युभयं स्वीक्रियते केवला तु मतिरनक्षरैव भविष्यतीति चेत्, न, एवं सति उपयोगयोगपद्यप्रसङ्गाद्,एकतरोत्पत्तिस्वीकारे च 'सावकाशानवकाशयोरनवकाशो विधिबलीयान् इति न्यायनान्यत्रानवकाशस्य मतिज्ञानस्यैव स्वीकर्तुं युक्तत्वादिति प्राञ्चः॥ नन्वयं नात्रोपयुज्यते विधिविषयत्वात्तस्य, तथाहि निर-सहशब्दयोनिर्धनः सधन इत्यत्रेवाल्पबहुत्ववाचकत्वाद् 'बहुविषयादल्पविषयो विधिर्बलीयान्' इत्यर्थः, एवं च वृक्षरित्यत्र पस्मपि'एबहुस्मोसि इति(सिद्धहैम १-४-४)सूत्रं बहुविषयत्वाद् बाधित्वा पूर्वमप्यल्पविषयं 'भिस
मतिश्रुतभेदनिरूपणे परविप्रतिपत्तिखण्ड
नम् ॥
E