________________
सविवरणं श्रीज्ञाना
-
प्रकरणम् ॥
॥ २३ ॥
हेतुकमिति तदभिन्नत्वे सति ततो भिन्नमिति, न च भेदमात्रस्याकांक्षितत्वादधिकाभिधाने निग्रहः एकद्रव्यत्वेनाऽभेदोपस्थितौ कथमभेदे भेद इत्याशङ्कायामेतदभिधानाद्, अथवाऽभेदे कार्यकारणभाव एव कथं मतिश्रुतयोः ?, इत्याशङ्कोत्थानादेतदभिधानं, तदुच्छेदश्च वल्कसुम्बयोरिवाऽनुकृतान्वयव्यतिरेकयोस्तयोरभेदेऽपि कार्यकारणभावानुमानाद्, न चार्थान्तरं भेदग्राहकहेतुफलभावग्रहौपयिकत्वादेवास्य ।। ४९ ।। वल्कसुम्बोदाहरणान्मतिश्रुतयोर्भेदमभिधायाक्षरानक्षरतस्तमभिधित्सुः परमतं दूषयति— अनक्षराक्षरभेदा-दुक्ताव(द्भिन्दन्त्य) न्ये मतिश्रुते ॥ तदसत्, साभिलापा य-न्मतिरेवं विलीयते ॥ ५० ॥ मतिज्ञानमृनक्षरमेव, श्रुतज्ञानं तु श्रुतरूपमक्षवदुच्छ्वसितादि चानक्षरमित्युभयात्मकमित्यनयोर्भेद इति केचिदाहुः, तत्रैव सत्ययं स्थाणुर्वा पुरुषो वेति विकल्परूपाया ईहामत छेदप्रसङ्गात्, न हि शब्दनिर्मासं विना विकल्पत्वं नाम, किञ्चैवमवग्रहवदीहादीनामन्वयव्यतिरेकधर्मपरामर्शित्वरूपो विवेको न स्यात्, अथ सप्रकारकज्ञानत्वेनैव विवेचकत्वं, नतु साक्षरत्वेनेति, ईहादेः सप्रकारकत्वेऽपि नाक्षरानुगतत्वमिति चेत्, तर्हि श्रुतस्यापि साक्षरत्वे प्रमाणमन्वेषणयं, किञ्च ज्ञानविषययोः स्वरूपविशेष एव प्रकारता, इतीहादौ शब्द एव विशेषः प्रकारताख्यामाविभर्तीति कथमस्यानक्षरत्वं, न चातिरिक्तैव प्रकारतेति युक्तं, 'धर्मिकल्पनातो धर्मकल्पना लघीयसी' इति न्यायेन ज्ञाने शब्दाकारपरिणाम रूपाया एव तस्याः कल्पयितुं युक्तत्वात्, तदिदमाह - "अन्ने अणबखरऽक्खर–विसेसओ मइसुआई भिदति ॥ जं मइनाणमणक्खर - मवखरमियरं च सुयनाणं ।। १६२ ||" [अन्येऽनक्षराक्षरविशेषतो मतिश्रुते भिन्दन्ति ॥ यन्मतिज्ञानमनक्षरमक्षरमितरच्च श्रुतज्ञानम् ।। ] " जइ मरणक्खरच्चिय, हवेज्ज नेहादओ णिरभिलप्पे ॥ थाणुपुरिसाइपज्याय-विवेगो किह णु होजाहि १ ॥ १६३ ॥” [ यदि मतिरनक्षरैव भवेन्नेहादयो निरभिलाप्ये ॥ स्थाणुपुरुषादि
अक्षरानक्षरतो
मतिश्रुतभेदनिरूपणे
परविप्रति
पत्तिखण्ड
नम् !!
।। २३ ।