________________
Heal
नायं न्याय: पृथग्भावे, तयोर्गुणकथा वृथा ॥ मतिर्वल्कं ततो भाव-श्रुतं सुम्वमिति स्थितिः ॥ ४८ ॥ सुम्बवल्कदृष्टान्तो हि कार्यकारणयोरमेदमपेक्ष्य व्यवस्थितः कथं चेतनाचेतनधर्मयेोर्ज्ञानशब्दयोर्वक्तुमवकाशं लभेत १, ' अथ आयुर्धृतम्' इतिवद्भिन्नयोरपि तन्मयत्वव्यवहारो नानुपन्न इतिचेत्, न, तथापि सम्भवति मुख्यार्थ उपचारकल्पनाऽयोगात्तस्माद्वल्कसमा मतिः सुम्बसमं तु भावश्रुतं तस्य तत्पूर्वकत्वस्या (मा) गमे व्यवस्थितत्वादिति तदुन्नयनं युक्तम् ।। आह च - "णय दव्वभावमेते वि, जुज्जए सोऽसमंजसओ ॥ १५८ ॥ " [ न च द्रव्यभावमात्रे ऽपि युज्यते सोऽसमञ्जसतः ॥] "जह वग्गा सुबत्तण- सुर्वेति सुंबं च तं तओणनं ॥ ण मई तहा धणित्तण-मुवेह, जं जीवभावो सा ॥१५९॥” [यथा वल्काः सुम्बत्वमुपयान्ति सुम्बं च तत तोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यज्जीवभावः सा ।] "अह उवयारो कीरs, पभवइ अत्यंतरं पि जं जत्तो ॥ तं तम्मयं ति भण्ण, तो मइपुब्वं जओ भणियं ॥ १६० ॥" [ अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद्यस्मात् ॥ तचन्मयमिति भण्यते ततो मतिपूर्वं यतो भणितम् ॥ ]" भावसुअं तेण मई, वग्गसमा सुँबसरिसयं तं च ॥ जं चिंतिऊण तया, तो सुअपरिवाडि - मणुसरइ ॥१६१||”[भावश्रुतं तेन मतिर्वल्कसमा, सुम्बसदृशं तच्च ॥ यच्चिन्तयित्वा तया ततः श्रुतपरिपाटिमनुसरति || ] ||४८ || नन्वेतदभिधानस्य हेतुफलभावेन भेदाभिधानात्को विशेष इत्याह
दृष्टान्तेनामुनाऽभेदा- श्लिष्टभेदप्रदर्शनम् ॥ विशेषोऽस्य ततो हेतु-फलभावप्रदर्शनात् ॥ ४९ ॥ हेतुफलभावेन हि भेदमात्रं साध्यते, अनेन तु भेदाभेद इत्यनयोविंशेषः, तथाहि श्रुतं मत्यभिन्नत्वे सति तद्भिनं, एकद्रव्यत्वे सति तद्धेतुकत्वात्, यद् यदेकद्रव्यत्वे सति यद्धेतुकं ततदभिन्नत्वे सति ततो भिन्नं यथा वल्कैकद्रव्यं सुम्बं वल्क
मतिश्रुतभेदनिरूपणे
वरकसुम्ब
दृष्टान्तस्य
वास्तवाभिप्रायप्रकटी
करणम् ॥