________________
सविवरणं श्रीज्ञाना
-
प्रकरणम् ।।
॥ २२ ॥
दिट्टंतोयं जुतिं, जहोवणीओ ण संसहइ ॥ १५४ ॥ " [ अन्ये मन्यन्ते मतिर्वल्कसमा सुम्बसदृशं सूत्रम् ॥ दृष्टान्तोऽयं युक्तिं यथोपनीतो न संसहते]. “भावसुआभावाओ, संकरओ णिन्विसेसभावाओ | पुव्युत्तलक्खणाओ, सलक्खणावरण आओ || १५५॥” [ भावश्रुताभावात् संकरतो निर्विशेषभावात् ॥ पूर्वोक्तलक्षणात्स्वलक्षणावरणभेदात् ] ॥ ४६ ॥
अनेनैव दृष्टान्तेन द्रव्यभावश्रुतयोर्मतिद्रव्य श्रुतयोश्च भेदनिरूपणाभिप्रायमधरयति —
द्रव्यभावश्रुते भेत्तुं युज्येत नैतया दिशा ।। मतिद्रव्यश्रुते वा यद्, ज्ञानभेदेऽत्र मृग्यते ॥ ४७ ॥ भावश्रुतं वल्कसमं कारणत्वात् कार्यत्वाच तज्जनितः शब्दः सुम्ब इति नेत्थमनयोर्भेदोऽभिधेयः । मतिश्रुतभेदचिन्तावसरे तद्भेदस्यानधिकृतत्वात्, एवमश्रुतानुसारिणी मतिर्वल्कसमा तज्जनितः शब्दः सुम्बसमः श्रुतानुसारिणी मतिस्तु श्रुतमित्यपि बचो नोच्चार्यमाणं चारुतामञ्चति, अनेनोदाहरणेनाधिकृतं मतिश्रुतयोर्भेदमुपेक्ष्य भेदान्तरसाधनेनाऽर्थान्तरप्रसङ्गात् । आह च“कप्पेज्जेज्ज व सो भाव- दव्वसुत्तेसु तेसु विण जुत्तो ॥ महसुयभेआवसरे, जम्हा किं सुअविसेसेण ॥ १५६ ॥ " [ कल्प्येत वा स भावद्रव्यश्रुतयोस्तयोरपि न युक्तः ॥ मति श्रुतभेदावसरे, यस्मात्किं श्रुतविशेषेण ।।] “असुयक्खरपरिणामा, व जा मई वग्गकप्पणा तम्मि ॥ दव्यमुयं सुम्बसमं, किं पुण तेसिं विसे सेणं १ ॥ १५७ ॥ " [अश्रुताक्षरपरिणामा वा या मतिर्वल्ककल्पना तस्याम् || द्रव्यश्रुतं सुम्बसमं, किं पुनस्तयोर्विशेषेण ] "इह ई जेणाहिगओ, नाणविसेसो ण दव्वभावाणं । नयदव्वभावमितेबि, जुज्जए सोऽसमंजसओ।। १५८।।” [ इह येनाधिकृतो ज्ञानविशेषो न द्रव्यभावयोः ॥ न द्रव्यभावमात्रेपि युज्यते सोऽसमञ्जसतः ] ॥ ४७ ॥ किश्च भेदघटितकार्यकारणभावशालिनोरनयोर्न वल्कसुम्बोदाहरणं परमार्थतः सम्भवतीत्युपदिश्य वास्तवव्याख्याप्रकारमाह
वल्कसुम्बोदाहरणेन म
विश्रुतमेद
निरूपणे पर
विप्रतिपत्ति
खण्डनम् ॥
॥ २२ ॥