________________
सविवरणं श्रीज्ञानात्र - प्रकरणम् ॥
॥ २० ॥
भाषते यद् नोपलब्धिसमं] "अभिलाप्पाणभिलप्पा, उवलद्वा तस्समं च नो भणइ ।। तो होउ उभयरूवं, उभयसहावंति काऊणं ।। १५२ ।। " [ अभिलाप्यानभिलाप्या, उपलब्धास्तत्समं च नो भणति । ततो भवतूभयरूपं, उभयस्वभावमिति कृत्वा ॥ ] "जं भासह तं पिजओ, ण सुआदेसेण किं तु समईए || ण सुओवला द्वैतुल्लंति, वा जओ गोवलासमं ॥ १५३ ॥” [यद्भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या | न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमं ॥ |] || ३९ ॥ मतिज्ञाने न शब्दपरिणामरूपश्रुतसाधर्म्येण श्रुताशङ्कयेतर त्रेत्याद्यभिधानं श्रुतत्वाभावव्याप्य श्रुतोपयोगासाहित्यनिर्णये तदनुत्थानात्, किन्तु शब्दपरिणामरूपसाधारणधर्मदर्शनात्तदाशङ्कयेत्यतोऽपरथा व्याचष्टे
तदा श्रुतोपयोगः स्याच्छ्रुतविज्ञप्तिहेतुभिः || प्रयोगः स्याद् यदा (च) यंतु, नाक्षराय (रस्या) नुसारतः॥ ४० ॥ सम्भवेन फलतो वा प्रयोगकाले मतिज्ञानस्य श्रुतोपयोगस्तदा स्याद् यदि श्रुतधीहेतुसन्निधानं स्यात्, तदेव चात्र नास्ति, अभिलाप्येऽनभिलाप्ये वा मतिविषयेऽक्षरानुसाररूपसह कारिविरहात्, नहि सह कारिसन्निधानानुद्बुद्धश्रुतलब्ध्या श्रुतोपयोगः स्यादिति तद्विरहेणैव तत्र तद्नापत्तिरिति भावः एवञ्च इयरत्थवीत्यादौ श्रुतपदं श्रुतोपयोगपरं, उपलब्धिसममिति च श्रुतोपलसिमहेतुकमित्यर्थकं क्रियाविशेषणं, भणेदित्यत्र मतिज्ञानोपयुक्त इतिशेषः || ४ ० ॥ नन्वत्र भाष्यकारव्याख्याने श्रुतोपयुक्तस्य भाषासम्भवः श्रुतमित्येतावदेवास्तु, विषयग्रहणं पुनरनतिप्रयोजनमितिचेत्, न, वि षयभेदेन तद्भेदोपदर्शनार्थं तद्ग्रहणादित्याशयेनाह - भेदो विषयभेदेन, हेतुभेदोपजीवि वा ॥ नूनं मतिश्रुते भेत्तुं दर्शितो व्याख्ययाऽनया ॥ ४१ ॥ स्पष्टः ।। ४१ ।। अथ विषयता भेदाचद्भेदप्रतिपादनार्थमियमपरथा व्याख्यायते—
इन्द्रिय विभागान्मतिश्रु तभेदाभिघा
ने साक्ष्योड़
ताया: पूर्व
गतगाथाया
भाष्यानुसारिविवर
पम् ॥
॥ २० ॥