________________
৬৬
अभिधेयत्वस्य केवलान्वयित्वात्, इति, तचुच्छं, सर्वमभिधेयं प्रमेयत्वादित्यत्राभिधाविषयत्वस्य साध्यत्वे सिद्धसाधनादनमिलाप्यानामप्यनभिलाप्यपदाभिधेयत्वात्, तत्तत्पदबोध्यत्वप्रकारित्वावच्छिभेच्छाविषयत्वस्य साध्यत्वे क्वचिदेकस्येव सर्वस्यापि सङ्केतग्रहासम्भवेन विपक्षबाधकतर्कविरहेणाप्रयोजकत्वात् न च विपक्षस्याऽभिधानानभिधानाम्यां व्याघात एव तद्बाधकस्तर्कः, अनभिधानेऽपि वस्तुस्वरूपाप्रच्युतेः, अथ न सङ्केतमात्रमभिधा, आधुनिकसङ्केतितेष्वपि तत्प्रसङ्गात् सर्गादौ वाऽस्मदादिसङ्केतानुत्थानाच्च, किन्त्वीश्वरेच्छैव सा, तस्याश्च नित्यतया न कारणविरहप्रयुक्तो विरह इति तद्विषयत्वमेव सार्वत्रिकमनुमेयमिति चेत, न, शाब्दबोधानुकूलसङ्केतमात्रस्यार्थोपस्थापकत्वात्सर्गादेरसिद्धेरीश्वरस्याप्य सिद्धेस्तज्ज्ञानविषयत्वस्येव तदिच्छाविषयत्वस्थ साध्यत्वेऽप्युद्देश्यासिद्धेस्तदिच्छाविशेषविषयत्वस्य साध्यत्वेऽप्रयोजकत्वाद्, अर्थानां बाहुल्येन शब्दानां चाल्पत्वेन सर्वत्र तदप्रसरात्, न हि तत्तत्क्षणेष्वेवानन्तेषु विशेषपदप्रयोगः सम्भवी, किमङ्ग शेषेषु भावेषु, न चोलब्धेष्वपि बहुत्वं हेतुभवितुमुत्सहते, तथापि फलाभावे स्वरूपायोग्यत्वमेव हेतुरिति तत्रास्वाभाव्यमेव हेतुरुक्तः, उपायस्योपायान्तरादूषकत्वाद्वा, तदिदमाह - " कह महसुओवलद्धा, तीरंति न भासिउं बहुत्ताओ ॥ सव्वेण जीविएण वि, भासह जमणंतभागं सो ॥ १३८ ॥” [ कथं मतिश्रुतेापलब्धास्तीर्यन्ते न भाषितुं बहुत्वात् ॥ सर्वेण जीवितेनापि, भाषते यदनन्तभागं सः ।।] "तीरंति ण वोत्तं जे, सुओबलद्धा बहुत्तभावाओ || सेसोवलद्धभावा साभव्वबहुत ओभिहिआ || १३९ ||" [ तीर्यन्ते न वक्तुं श्रुतोपलब्धा बहुत्वभावात् ॥ शेषोपलब्धभावाः स्वाभाव्यबहुत्वतोऽभिहिताः ] ननु मतिश्रुतोपलब्धार्थानां कथमीदृशं बहुत्वं यदनन्तभाग एव कृत्स्नेनायुषा भाष्यत इति चेत्, उच्यते, तदनन्तमागनिबन्धस्यैव सूत्रोक्तत्वात्, आह च " कचो एत्तियमेत्ता, भावसुअमईण पज्जया जेसिं ॥
इन्द्रियविभा गान्मतिश्रुतभेदाभिघा
ने सर्वार्थानां .व.मयोग्यत्वं भाष्यानुसारिचचितम् ॥