________________
सावरणं श्रीज्ञाना
नवप्रकरणम् ॥
॥ १७ ॥
साम्प्रतं शब्दहेतुत्वान्मतिद्रव्यश्रुतं भवेत् ॥ शुद्धा तु सा तदा तत्स्याद्, यदि ज्ञप्तिसमं भणेत् ॥३३॥
मतिदृष्टानर्थान्मत्युपयोगेन भाषमाणस्य द्रव्यश्रुतरूपशब्दकारणतया मतिर्द्रव्यश्रुतत्वमास्कन्देदेव, प्रयोगानुकुला च मतिस्तु तथात्वमश्नुवीत, यदि नाम मतिमानुपलब्धिसमं मणितुं शक्नुयात्, आह च - " अहव मई दव्वसुअत्तमेउ, भावेण सा विरुज्झेज्जा ।। जो असुअक्खरलाभौ, तं मइसहिओ पभासेज्जा ।। १३६ ।” [अथवा मतिर्द्रव्यश्रुतत्वमेतु, भावेन सा विरुध्येत ॥ योऽश्रुताक्षरलाभस्तं मतिसहितः प्रभाषेत ।।] “इयरम्मि वि मइनाणे, होज्ज तयं तस्समं जइ भणेज्जा ॥ ण य तरह तत्तियं सो, जमणेगगुणं तयं तत्तो ॥ ॥ १३७ ॥ " [इतरस्मिन्नपि मतिज्ञाने, भवेत्तत्समं यदि भणेत् ॥ न च तरति तावत्स यदनेकगुणं तत्ततः ॥ ] ननु युद्धापि मतिः शब्दकारणत्वात्कुतो न द्रव्यश्रुतं नहि कार्यमजनयतोऽपि कारणस्याकारणत्वं नाम, अरण्यस्थदण्डादेर्घटाहेतुत्वप्रसङ्गात् किञ्चैतद्व्याख्यानस्याविरोधाभिधान सावधानत्वेन मतिद्रव्यश्रुतयोर्भेदनिरूपणोपयिकत्वेऽपि मतिश्रुतयोस्तन्निरूपणानौपयिकत्वमिति चेत्, न, सहकारियोग्यताया एव द्रव्यघटकत्वात् उक्तातिदेशेन श्रुतेऽपि तद्भेदलाभेन प्रयोगभेदेन मतिश्रुतयोरपि भेदलाभाच्च [ चानुना विप्रयोगेऽप्यात्मानमलभमानाः शब्दाः पार्वतिच्छायें] ।। [ अत्राशुध्धमवभासते ] । ननूपलब्धितुल्यं भणितुमशक्यमित्यत्र को हेतुरित्यत आह
अस्वाभाव्याद् बहुत्वाच्च, न सर्वत्र गिरां गतिः ॥ अपि प्रज्ञापनीयाना-मनन्तोऽशो न्यबन्धि यत् ||३४||
मत्याद्युपलब्धार्थानामनभिलाप्यत्वस्वभावादेव वक्तुमशक्यत्वं, यद्यपि कतिपयास्तैरप्यभिलाप्या एव तथापि श्रुताविषयत्वेन तेषामनभिलाप्यत्वं बोध्यं, भाष्ये शेषोपलब्धिपदं वा श्रुतोपलब्ध्ययोग्यत्वपरम्, यत्तु कश्चिदाह न सन्त्येवानभिलाप्या भावा
इन्द्रियविभागाम्मतिश्रु तभेदाभिधा
ने उक्त पूर्व
तोत्तरार्ध
व्याख्यान
विशेषस्य
भाष्यानुसा
रिहृद्यतोपदर्शनम् ॥
॥ १७ ॥