________________
BROKARUARok
। तस्य च मतिजन्यतया मतित्वं श्रुतत्वं चेत्युभयमप्यविरुद्धमिति चेत्, न,एवं सति श्रुतोहाद्यामिलापस्थलेऽवध्यादिमूलकाभिलापस्थले | च तत्प्रसङ्गात्, तदिदमभिप्रेत्याह-"भासापरिणइकाले, मईए किमाहियमहवनहतं वा-भासासंकप्पविसेसमेतओ वा सुअमजुत्तं ॥१३४ ॥” [भाषापरिणतिकाले मतेः किमधिकमथवाज्यथात्वं वा ॥ भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥] ॥३०॥ ननु मतेः श्रुतहेतुत्वात् नावध्यादिस्थले तत्प्रसङ्गः, श्रुतानुसाराभावाच नाश्रुताभिलापस्थलेऽपीत्यत आह
मत्या श्रुतानुसारस्या-श्रयणाजन्यते श्रुतम् ॥ इति चेच्छतसङ्कल्पः, श्रुतमेवावधार्यताम् ॥ ३१॥
श्रुतमनुसृत्य मतिज्ञानेन यदि श्रुतज्ञानं जन्यते तर्हि भाषासङ्कल्पोऽपि श्रुतानुसारितया श्रुतमेव स्यात्, न तु मतिरिति बुद्ध्या मतिज्ञानेनेति व्याख्यानमनुपपन्नम् ॥३१॥षाश्चिदेवोत्तरार्द्धव्याख्यानमधरयति
इतरोत्पत्तिकाले च, श्रुतं स्यादिति दुर्वचम् ॥ भिन्नहेतुकतासिद्धेः, स्वस्वावरणभेदतः॥ ३२ ॥
इतरत्र केवलमतिज्ञानोत्पत्तिकाले, तदा श्रुतं स्याद्यधुपलब्धिसमं भणेदित्याद्यापादनानई, तदा श्रुतज्ञानसामग्रीविरहनिश्चयेन तदनापत्तेः, भिन्नलक्षणावरणत्वेन द्वयोर्व्यवस्थितत्वात्, न च तदा श्रुतलब्धिसत्त्वात्तदापत्तिः, विशेषसामग्र्यभावेन तदभावात्सा च परोपदेशाहद्वचनाद्यनुसाररूपा, अत एवाह-"इयरत्थवि मइनाणे, होज्ज सुअंति किह तं सुअं होइ ॥ किह व सुअं होइ मई, सलक्खणावरणभेआओ ॥१३५॥"[इतरत्रापि मतिज्ञाने भवेच्छ्तमिति कथं तच्छ्रतं भवति ॥ कथं वा श्रुतं भवति मतिः, स्वलक्षणावरणभेदात् ॥] परव्याख्या बाधकत्व(बाधितार्थ)गोचरा भ्रान्तैव निसर्गात इति न किञ्चिदेतत्॥३२।। श्रुतोपलब्धानां तु बहुत्वादेव कात्स्न्येन वक्तुमशक्यत्वं कौशलमादधानस्य मति वश्रुतं न स्यादेव द्रव्यश्रुतत्वं तु तत्र निगद्यमानं हृद्यमपीत्याशयेनाह
इन्द्रियविभा
गान्मतिश्रुतभेदाभिधाने उक्तपूर्व गाथोत्तराईव्याख्यानान्तरस्य माष्यानुसारिखण्डनम् ॥