________________
ॐ
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम्।।
ACCOC5
वचनार्थकं जात्यभिप्रायकं वा, बुद्धया मत्या दृष्टान् यानर्थान् मतिसहितान् भाषत इति सम्मुखीनैव व्याख्या, तच्छ्रतमुपयोगप्रयोगाभ्यामुभयश्रुतं भवति। ननु मतिसाहित्यं कथमर्थानां विशेषणमनन्वयादिति चेत्, अत्राहुः-मईसहियमित्यत्र मत्युपयोगे वर्तमानस्य वक्तुग्रहणात् , तस्य मत्युपयोगसाहित्येनार्थानामपि तदुपर्यत इति। अत एवाह-"केई बुद्धिद्दिद्वे, मइसहिए भासओ सुअंति।"[केचिद् बुद्धिदृष्टान् मतिसहितान्माषमाणस्य श्रुतम् ॥] इदं च भाष्यानुरोधादुक्तम्, सूत्रे तु मइसहियमित्यत्र मतिसाहित्यस्य क्रियाविशेषणत्वलाभान्मत्युपयोगसहितम्, मतिदृष्टार्थभाषणं श्रुतमिति सम्मुखोऽर्थ एव युक्तो, नहि मतिसहिता भाष्यमाणा अर्थास्तव , अपि तु तादृशः शब्द इति ॥ अत एवाह-तत्सहितं यथा भवत्येवं यान् भावान् भाषते इति अनुपक्तस्यैव वदतो द्रव्यश्रुतं, अभाषमाणस्य पदार्थमात्रपफलोचनं तु मतिः,इति मतिश्रुतयोर्भेद इति ॥२९॥ तदेतद्दषयति
केचिदाहुरिदं, तन्नो, युक्तं भावश्रुतव्ययात् । नाधिक्यं नान्यथात्वं वा, भाषाव्यापारतो मतेः॥३०॥ ___ तदिदं व्याख्यानमयुक्तं भावश्रुतोच्छेदप्रसङ्गात्, नहि प्रयुज्यमानः शब्दो मतिज्ञानं वा तद्, अत एव नोभयं प्रत्येकाभावे समुदायाभावाद्, आह च-"तत्थ ॥ किं सदो मइरुभय, भावसुअं सव्वहाऽजुत्तं ॥१३२॥ [तत्र किं शब्दो मतिरुभयं, भावश्रुत सर्वथाऽयुक्तम् ] " सदो ता दव्बसु, मइरभिनि-बोहि न वा उभयं ।। जुत्तं, उभयाभावे भावसुअं कत्थ तं किं वा ॥१३३॥ [शब्दस्तावद्रव्यश्रुतं मतिराभिनिबोधिकं नवा उभय।। युक्तं, उभयाभावे, भावश्रुतं कुत्र तत्किं वा] न च भाषापरिणतिकाले मताधिक्यमुपक्षयो वा जायते. न वा भाषारम्भ एवात्र विशेषस्तस्य तत्स्वरूपपरावृत्यसहत्वाव, अन्यथा धावनवल्गनादिक्रियानन्त्यान्मतेरानन्त्यप्रसङ्गात्, अथ द्रव्यश्रुतसामग्रूथा एव भावभ्रतसामग्रीत्वान्मतिदृष्टार्थप्रयोगसमानकालीन उपयोगः श्रुतमेव
इन्द्रियविभागान्मतिश्रुतभेदाभिषाने उक्तपूर्वग
तगाथाया व्याख्याना
न्तरस्य
खण्डन | भाष्यानुसा
रेण
EARCHES