SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ KRICKR स्य " इयरत्थ वि होज्ज सुअं उवलद्धिसमं जइ भणिज्जा ॥१२८ ॥" इत्यस्यायमर्थः, इतरत्र भावश्रुते, भवेद्रव्यश्रुतमु-१४ इन्द्रियविभाभयश्रुतं वा, यापलब्धिसमं भणेत् प्राकृतशैल्या सहस्य समभावनिपातनात्समशब्दस्य तुल्यार्थकत्वात्समकालार्थकत्वाद्वो- मान्मतिश्रुतपलब्ध्या सहोपलब्धितुल्यमुपलब्धिसमकालं वा भणेद्, अत्राचन्तयोः सहभावयौगपद्ययोः सामान्येन ग्रहणादीप्सितार्थ- भेदाभिधाने सिद्धिः, तदिदमाह-" इयरत्थवि भावसुए, होज्ज तयं तस्समं जइ भणिज्जा ॥ण य तरइ तत्तियं सो, जमणेगगुणं तयं तत्तो उक्तपूर्वगत. ॥१३०॥"[इतरत्रापि भावश्रुते, भवेत्तत्तत्समं यदि भणेत् ॥ न च तरति, तावत्सःयदनेकगुणं तत्ततः] " सह उपलब्धीए वा, ICIगाथोत्तरार्द्धउपलब्धिसमं तया व जं तुलं । जं तस्समकालं वा, ण सव्वहा तरइ वोतुं जे ॥१३१॥"[सहोपलब्ध्या वोपलब्धिसमं तदा वा यत्तुल्यम् ।। यत्तत्समकालं वा न सर्वथा तरति वक्तुम्] एवञ्च द्रव्यश्रुतादुभयश्रुताच्चानन्तगुणं भावभुतं प्राप्तमिति सम्प्रदायः॥ भाष्यानुव्यक्तीभविष्यति चेदमुपरिष्टात, भावयुते द्रव्यश्रुतमप्रसक्तमिति सूत्रे श्रुतपदं प्रागुक्तश्रुतपदसमानार्थकमुभयश्रुतपरमेव, न चैवं सारिविवतच्छब्देन तस्य परामर्शो युज्येत, सूत्रकृतांगतेर्विचित्रत्वात्, न चैकविशेष विशेषान्तरमापादनाईमिति, इतरत्रेत्यस्य केवलभावश्रुतोत्पत्तिकाल इत्यर्थः । एवञ्च तदा भावश्रुतसामग्रीसत्त्वेऽपि द्रव्यश्रुतसामग्र्यभावादुमयश्रुताभावो, न बुभयमतिरिक्तमस्ति, प्रत्येकातिरिक्तसमुदायाभावादित्येतत्तात्पर्यम् ॥२८॥ अथान केषाश्चिन्मतिश्रुतभेदोपयिक पूर्वार्द्धव्याख्याकौ- 181 शलमपहस्तयितुमुद्भावयति मत्या सह तया दृष्टान, अवतो धुभयश्रुतम् ।। द्रव्यतोऽनुपयुक्तस्य, तदेकालोचनं मतिः ।। २९ ॥ 'बुद्धिद्दिद्वे' इत्यत्र बुद्धया मत्या दृष्टेष्वर्थेषु मध्ये अत्र 'वर्णेषु क्षत्रियः शूर' इत्यत्रेव मध्यार्थे सप्तमी, एकवचनं बहु
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy