SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ RE सविक्रवं श्रीज्ञाना इन्द्रियविभाहै गान्मतिश्रुत भेदाभिधाने 'बुद्धिदिढे अत्थे MUR बुद्धया बुद्धिगतानान् , वदतो युभयश्रुतम् ॥ द्रव्यतोऽनुपयुक्तस्य, भावतो जानतः परम् ॥ २७॥ बुद्धया दृष्टानान् मतिसहितान् यान् भाषते तद्रव्यभावलक्षणमुभयश्रुतम्, अत्र बुद्धिशब्दो मतिशब्दश्च श्रुततात्पर्यकः, निरूपणप्रयोजकविवक्षारूपज्ञानस्य प्रयोगसमकालीनोपयोगस्य च मतिरूपस्यासम्भवात्, उभयत्वं चात्र प्रयोगोपयोगाभ्यां बोध्यम्, न तु विवक्षया, तया सहकविशिष्टापरत्वरूपोभयत्वासम्भवात्, अनुपयुक्तस्यैव वदतो द्रव्यश्रुतम्, अथानुपयुक्तस्यैव प्रयोगो भवति नोपयुक्तस्य, प्रयोगकाल एव तदधीनार्थोपयोगस्यासम्भवात्, तथा च कथमयं विभाग इति चेत्, न, सोपयोगप्रयोगाभिधित्सया केवलप्रयोगाभिधित्सया च प्रयोगद्वैविध्यसम्भवाद्वार्थादिषुच्छिन्नज्वालादृष्टान्तेनैव वोपयोग इति व्यक्तमध्यात्ममतपरीक्षायाम्, तदिदमभिप्रेत्याह-"जे सुअबुद्धिदिढे सुअमइसहिओ पभासई भावे॥ तं उभयसुअंभण्णइ, दब्बसुअं जेउ अणुवउत्तो॥१२९॥"[यान् श्रुतबुद्धिदृष्टान,श्रुतमतिसहितः प्रभाषते भावान्।।तदुभयश्रुतं भण्यते, द्रव्यश्रुतं यांस्त्वनुपयुक्तः] अत्राभाषमाणस्यैव श्रुतबुद्धया पर्यालोचयतस्तु भावश्रुतमेवेति सामर्थ्यगम्यं, सामर्थ्य च न तत् भावश्रुतमेवेति साध्ये द्रव्योभयश्रुतभिन्नत्वे सति श्रुतत्वम्, एवकारेण साध्यार्थस्यापि तादृशस्य पर्यवसाने हेतुसाध्याभेदप्रसङ्गात्, किन्तु प्रयोगाकालीनश्रुतत्वमेवेति बोध्यम् ॥ सूत्रे तु श्रुतपदस्योभयश्रुतपरतयाऽनुपयुक्तस्य वदतो द्रव्यश्रुतमेवेत्यपि सामर्थ्य गम्यमेव, एवश्च द्रव्यश्रुतं भावश्रुतमुभयश्रुतं वा किं कथञ्च भवेदित्याकांक्षाःपूरिताः॥२७॥ अथ द्रव्यश्रुतमुभयश्रुतं वा भावश्रुतस्य कियानंश इत्याकांक्षापूरणोपयिकमुत्तरार्ध व्याख्यायते तात्पर्यत: केवलश्रुतकालेऽपि, तदाऽऽत्मन्युभयभुतम् । भवेद्यधुपलब्धार्थान् , सर्वान् वक्तुं क्षमेत सः ॥ २८ ॥ Sideos इति पूर्वगत गाथाया | भाष्यानुसारिपूर्वार्धविव रणम् ॥ ॥१५॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy