________________
श्रोत्रोपलब्धिरेव श्रुतमिति पर्यवसानेऽपि तस्या मतिरूपाया अपि सम्भवानोक्तदोषः॥ आह च-"सोइन्दिओवलद्धी, चेव सुकं न उ तई सुअंचेव ॥सोइन्दिओवलद्धी वि, काइ जम्हा मइनाणं॥१२२॥" [श्रोत्रेन्द्रियोपलन्धिरेव, श्रुतं न तु सा श्रुतमेव ॥श्रोत्रेन्द्रियोपलब्धिरपि,काचिद्यस्मान्मतिज्ञानम् ] केचित्तु 'श्रोत्रेन्द्रियोपलब्धिरित्यत्र केवलबहुव्रीह्याश्रयणेन श्रोत्रेन्द्रियोपलब्धिः भुतमेव शब्द एव,स च ब्रुवतः श्रूयत इति श्रुतं, शण्वतस्तु श्रोतुरवग्रहादिना मन्यत इति मतिरित्युभयमुपपन्नम्,उपपन्नाश्चाष्टाविंशतिरपि मतेर्भेदा' इत्याहुः, तत्र,धात्वर्थमात्रभेदेन शब्दस्य द्रव्यश्रुतमात्रत्वाप्रतिघाते द्वैविध्याभावात्, आह च-"केई बिन्तस्स सुरं, सद्दो सुणउ मइत्ति तंण हवे ॥ सव्वोच्चिअसद्दो, दव्वसुअंतस्स को भेओ?॥११९।।"[केचिठ्वतः श्रुतं शब्दः शृण्वतो मतिरिति तद् न भवेत् ॥ यत्सर्व एव शब्दो, द्रव्यश्रुतं तस्य को भेदः१] वस्तुतस्त्वेतदवधारणोक्तिर्न मतिश्रुतज्ञानयोर्भेदनिरूपणौपयिकी शब्दभेदनिरूपणं त्वनधिकृतमित्यर्थान्तरम, यदि च श्रोत्रेन्द्रियोपलब्धिपदार्थः शब्दविज्ञानमेव कार्यतया चोपचाराच्छब्द एवेत्युच्यते तदापि वक्तृश्रोतगतत्वेन तस्यातिशयाभिधानं श्रुत्वा अवतश्च सैव मतिः, तदेव च श्रुतमिति सार्यम् , पारम्पर्यश्रुतोच्छेदश्च स्यात,आह च-"किंवा नाणेहिगए, सद्देणं जइ असद्दविन्नाणं ॥ गहिअंतो को भेओ,भणओ सुणओ च जो तस्स॥१२०॥" [किं वा ज्ञानेऽधिकृते ? शब्देन यदि च शब्दविज्ञानं ॥ गृहीतं ततः को भेदो, भणतः शृण्वतश्च यस्तस्य] “भणओ सुणओ व सुरं, तं जमिह सुआणुसारि विण्णाणं ॥दोहं पि सुआईअं, जं विण्णाणं तयं बुद्धी ॥१२१॥" [भणतः शृण्वतो वा श्रुतं, तवदिह श्रुतानुसारि विज्ञानं ।। द्वयोरपि श्रुतातीतं, यद्विज्ञानं तद्बुद्धिः] किश्च शब्दविज्ञप्तिः शब्द एवेत्युक्ते किं केन सङ्गतमिति श्रोत्रेन्द्रियोपलब्धेः शेषाक्षरलाभस्य च शब्दविज्ञानत्वप्रतिपादनेनैव फलतः श्रुतत्वप्रतिपादनमनाकाङ्क्षितमेव श्रोत्रेन्द्रियोपल
इन्द्रियविभागान्मतिश्रुतभेदाभिधाने साक्ष्योद्धतायाः पूर्वगतगाथाया भाष्यानुसारिविवरणम् ॥
Koice
रासस