SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ EKAR शेषवति विशेषान्तराभावेन सामान्याभावाभ्युपगमेऽतिप्रसङ्ग इति वाच्यम्, एकसामान्यवति सामान्यान्तराभावस्यैव स्वीकाराद्, द्वयोः सामान्ययोरेकपदवाच्यतायामेव नयविभागाद्यत्सामान्यवत्येतत्सामान्याभावस्तत्सामान्यमेव मिथ्यात्वोदयजन्यतावच्छेदक, बन्धहेतुतावच्छेदकश्चाज्ञानत्वमेवेति प्राच्यपक्ष एव युक्त इति चेत्,न, अज्ञानत्वेन बन्धाहेतुतायामेतत्पक्षस्यैव युक्तत्वात, इति दिग्॥ इत्थमेव बन्धहेतुत्वादयो हेतवो ज्ञानत्वगमकाः सम्भवेयुरिति सर्वमवदातम् ॥ १५ ॥ उक्तो हेतुफलभावान्मतिश्रुतयोर्भेदः, अथ भेदभेदात्तमभिधातुमाहवक्ष्यमाणभिदाभाजो-रेतयोरथवा भिदा । विशेषनिश्चये जाति-भेदानुमितिगोचरः॥ १६ ॥ मतिज्ञानस्यावग्रहादयोऽष्टाविंशतिर्मेदाः, श्रुतज्ञानस्य चाङ्गानङ्गप्रविष्टादयश्चतुर्दश वक्ष्यन्त इति भेदभेदादनयो दो घटितः, नन्ववान्तरभेदस्य न सामान्यभेदानुमापकत्वम्, अन्यथा पृथिव्याद्यन्यतमभेदस्य द्रव्यभेदानुमापकत्वप्रसङ्गात्, इतिचेत्, न, तत्र साध्याभाववति हेतुसन्देहादननुमितेः, अत्र तु साध्याभाववति हेत्वभावनिश्चयेनानुमित्यप्रतिरोधात् व्याप्तिग्राहकादागमादेव साध्यसिद्धावपि सिसाधयिषया तदग्रहदशायां वाऽनुमानावतारात्पक्षतावच्छेदकावच्छेदेन ॥ आह च-मेयकयं च विसेसण-मवावीसइविहंगमेआई [भेदकृतं च विशेषणमष्टाविंशतिविधाङ्गभेदादिति वैधर्म्यमसिद्धमेव साध्यत इत्यप्याहुः॥१६॥ समर्थितो भेदभेदाद् भेदः, अथेन्द्रियभेदाद् भेदममिधातुमाहअथवेन्द्रियभेदेन, भेदः सिध्येत्तयोईयोः॥ श्रुतं पूर्वगते यस्मात् , तद्भवप्रतिपादनम् ॥१७॥ स्पष्टः॥ आह च-"इंदिअविभागओवा,मइसुअमेओ जओ मिहिआ११६॥" [इन्द्रियविभागतोवामतिश्रुतमेदो यतोऽमि | भेदभेदान्म तिश्रुतयोभैदाभिधानं, इन्द्रियनिभागाद्देशभिधानोरक्रमश्च। CASSAULI
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy