________________
RUS
वेत्यवधारणे तत्राऽसतामपि पटत्वादीनामध्यवसायः, अन्यथा सर्वथापदत्यागप्रसङ्गाद्, एवं विपर्यस्तत्वादेव भवकारण तत्, भवहेतुषु हिंसादिषु मोक्षहेतुत्वाध्यवसायात, मोक्षहेतुषु वाऽहिंसादिषु भवहेतुत्वाध्यवसायाद्, यादृच्छिकोपलम्भरूपं च तद्, विरतिलक्षणं फलं विना फलशून्यं च, इत्येतेहेतुभिरज्ञानमेवेदम् ॥आह च-"सदसदविसेसणाओ, भवहेउजदिच्छिओवलंभाओं ॥ नाणफलाभावाओ, मिच्छद्दिहिस्स अनाणं ॥११५॥" [सदसदविशेषणाद् भवहेतुत्वाद्यदृच्छोपलंभात् । ज्ञानफलाभावाद् मिथ्यादृष्टरज्ञानम् ॥] त्ति ॥ १३ ॥ ननु घट एवायं घटोऽस्त्येवेत्येवमेवाध्यवसायः परेषामपि नतु सर्वथेत्याकारस्तत्र च विशेषणक्रियासगौवकाराभ्यामन्ययोगव्यवच्छेदात्यन्तायोगव्यवच्छेदयोरेव लाभात्क सदसदविशेष इति चेद् , उच्यते ।
सर्वथाऽनुपरागेण, घटधीर्ज्ञानमेव नः ॥ कयश्चित्परसत्ताया, आपत्ती चेन्न तद्ग्रहः ॥ १४ ॥
यदि हि घटे कथञ्चिदन्ययोगव्यवच्छेदः कथश्चिदेव चास्तित्वात्यन्तायोगव्यवच्छेदोऽध्यवसीयते तदा ज्ञानमेव तत्, अन्यथा त्वज्ञानमेव, नहि घटभिने पटादौ प्रमेयत्वादिनापि योगो घटे व्यवच्छिद्यते, न वा पटास्तित्वादेरपि घटेऽत्यन्तायोगव्यवच्छेद इति । अथ घटे घटाभिननिष्ठभेदप्रतियोगितावच्छेदकधर्मवचमन्ययोगव्यवच्छेदः, अस्तित्वे च घटनिष्ठात्यन्ताभावाप्रतियोगित्वमत्यन्तायोगव्यवच्छेदः सर्वथास्त्येव, नहि ताशप्रतियोगितानवच्छेदकधर्मवत्वं तदभावः, येन सर्वथात्वव्याघातः, किन्तु तादृशधर्मवत्त्वाभावः। न च तादृशधर्मवति ताशधर्माभावो विरोधादप्रतीतेश्व,नच सर्वेः प्रकारैरिति सर्वथार्थः, किन्तु तदभावानधिकरणत्वे सतीति चेत्,न, प्रतियोगिमत्यपि पररूपेण तदभावात, विशेषग्रहे च कथञ्चितपक्षप्रसङ्गाद्, अधकः स्याद्वादरहस्ये विस्तरः ॥१४॥ ननु तत्रापि कथमेतदज्ञानम, कथञ्चित्पक्षग्रहात.किञ्चैवमप्यवधारणविनिर्मक्तं निर्विकल्पकादिकं कथं मिथ्यादृशां न ज्ञान,
ROAAAAAAAMA5
mastamnnamruinod
मिथ्यादृष्टेमैतिश्रुतयोरज्ञानत्वेहे| तवो निरूपिताः स
भाऽनुपरागे ज्ञानत्वमन्यथा त्वज्ञानत्व
मिति | दर्शितम् ॥
MOVALUM