________________
'सुणेइ त्ति सुअं' इत्यत्र व्युत्पत्यर्थगृहीते शब्दे मतिजन्यत्वतात्पर्यानुपपत्त्या तदाश्रयणस्य वक्तुमयुक्तत्वाद्, भेदचिन्ताया अप्रस्तुतत्वेन तत्र तज्जन्यत्वतात्पर्यानाकलनात्, स्यादेतत्, मत्यादीयमानस्य श्रुतस्य शब्दद्वारैव मतिजन्यत्वात्तत्र तत्पूर्वत्वं प्रतिपाद्यमानं श्रुत एव पर्यवस्यतीति, मैवम्, एतादृशमतिपूर्वत्वस्य सर्वत्रासम्भवात् एतेन द्रव्यश्रुते मतिपूर्वत्वप्रतिपादनस्य भावश्रुतभेदचिन्तौ - पयिकतया नार्थान्तरत्वमित्युक्तावपि न क्षतिः, नन्वेवमत्र द्रव्यश्रुते व्युत्पत्त्यर्थानुसरणमप्ययुक्तमनौपयिकत्वात्, इति चेत्, न, भावश्रुतलक्षणत्वेन तस्योपादेयत्वाद् ।। आह च - "भावसु मइपुव्वं, दव्वसुअं लक्खणं तस्स ॥ ११२ ॥ [भावश्रुतं मतिपूर्व, द्रव्यश्रुतं लक्षणं तस्य ] अत्र लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गमित्यर्थ इत्याहुः, वस्तुतो लक्षणं लक्षणघटकमित्यर्थोऽपि प्रागुक्तरीत्याऽनुसरणीयः, एवश्वच कार्यभूतेन लक्षणघटकेन वा शब्देन स्वकारणीभूतस्य स्वघटितलक्षणलक्ष्यस्य वा विवक्षारूपस्य भावश्रुतस्यैव लक्षणात्, तत्र मतित्वप्रतिपादनं परेषां विपरीतमिति ध्येयम् ।। आह च - "सुअविभाणप्पभवं, दव्वसुअमियं जओ विचिन्तेउं ॥ पुबि पच्छा भासह, लक्खिज्जइ तेण भावसु ॥ ११३ ॥ " [भुतविज्ञानप्रभवं द्रव्यश्रुतमिदं यतो 'विचिन्त्य ॥ पूर्वं पश्चाद् भाषते, लक्ष्यते तेन भावश्रुतम् ॥ |]॥ ११ ॥ अथ नन्द्यध्ययने मतिश्रुतयोः कार्यकारणभावेन भेदप्रतिपादनानन्तरं स्वस्थाने सम्यक्त्वमिध्यात्वपरिग्रहात्तयोर्भेदप्रतिपादनायेदं सूत्रमस्ति, तद्यथा । “अविसेसिआ मई मइनाणं मइअन्नाणं च विसेसिआ मई सम्मदिट्ठिस्स मई महनाणं, मिच्छादिट्ठिस्स मई महअन्नाणं || अविसेसिअं सुअं सुअनाणं सुअअन्नाणं च विसेसिअं सुयं सम्मद्दिहिस्स सुअं सुअनाणं, मिच्छदिट्ठिस्स सुअं सुअअमाणंति” [ अविशेषिता मतिर्मतिज्ञानं च मत्यज्ञानं च ॥ विशेषिता मतिः सम्यग्दृष्टेर्मतिर्मतिज्ञानं, मिध्यादृष्टेर्मतिर्मत्यज्ञानं ।। एवं अविशेषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च विशेषितं श्रुतं सम्यग्दृष्टेः श्रुतं श्रुतज्ञानं, मिथ्यादृष्टेः
व्याख्या
न्तरे श्रुत
पदस्य द्रव्य
श्रुते लक्षणा
बीजाभावः
व्युत्पत्त्यर्थ
नुसरणौपविमिकफले भाप्यसंवादः
तयोः सम्बक्त्वमिथ्यात्वे
विवेचिते न
दिसूत्र
वादात्