________________
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम् ॥ ॥९॥
त्वात्, श्रुतजन्यतावच्छेदकजातिकल्पने मानाभावाद्, अस्तु वा तत्र तद्धेतुत्वम्, तथाप्यत्र सामान् सामान्यतो भेदोपयोगितया ग्राह्यः, अन्यथा सामानाधिकरण्येन भेदग्रहेऽपि सामान्यतो भेदाग्रहेण न्यूनत्वप्रसङ्गाद् अपि च पौर्वापर्येण निरूपणौपयिकोऽपि सामान्यत एवोपजीव्योपजीवकभाव इत्युक्तसूत्रौपयिकतयाप्युक्तोत्कर्ष एव ग्राह्य इति दिग् ॥१०॥ मतिपूर्वं श्रुतमित्यत्र व्याख्यान्तरं विदधतां केषाञ्चिन्मते दूषणमाह
her द्रव्यतं प्राहु-मतिपूर्वं न चापरम् ॥ तेषां भावश्रुताभावो निर्बीजा कल्पना पुनः ॥ ११ ॥ मतिपूर्वं श्रुतमित्यत्र श्रुतपदं द्रव्यश्रुतपरं ' न ह्यविवक्षितं कोऽपि भाषते,' यच्च विवक्षाज्ञानं तत्किल मतिरित्येतन्मतिजन्यत्वं द्रव्यश्रुतस्यैव व्यवतिष्ठत इति केषाञ्चिदाशयः, तेषां विवक्षाज्ञाने प्राप्तमपि भावश्रुतलक्षणमुपेक्षमाणानामन्यत्रापि तदपेक्षाया अन्याय्यतया भावश्रुताभाव एव प्रसजेत्, इति निमग्नाऽनयोर्विशेषचिन्ता । आह च - "दव्वसुअं मइपुव्वं, भासह जंनाविचिन्तियं के । भावसु अस्साभावा, पावइ तेर्सि ण य विसेसो ॥ १११ ॥ [ द्रव्यश्रुतं मतिपूर्व, भाषते यद् नाऽविचिन्तितं केचित् ॥ भावश्रुतस्याभावः प्राप्नोति तेषां न च विशेषः ।।] न च मतिशब्दयोरेवात्र भेदचिन्ता सतामौचितीमश्चति तद्भेदस्यासन्दिग्धत्वेनाचिन्तनीयत्वात्, न च मतिपूर्वतया द्रव्यश्रुतस्य ततो भेदोऽपि मतेरपि शब्दपूर्वत्वेनाविशेषाद् । आह च - "दव्वसु बुद्धीओ, सा तओ जमविसेसओ तम्हति [द्रव्यभुतं बुद्धेः सापि ततो यद विशेषतस्तस्मात्।।] वस्तुतोऽनयोः सामान्यतो हेतुहेतुमद्भावाभावेन सामान्यतो भेदाऽसाधनाक्यूनत्वमपि, तस्माद् भावश्रुतं मतिपूर्वमित्येव व्याख्यानं सम्यग्, अन्यथा श्रुतपदस्य शब्दे लक्षणा निर्बीजा स्यात्, तथाहि किमत्रान्वयानुपपत्त्या लक्षणाऽऽश्रीयते, तार्त्यानुपपन्या वा, नाद्यो भावश्रुते जन्यत्वान्वयस्याऽबाधात्, न द्वितीयः,
मतौ श्रुत
जन्यताव
च्छेदकवैजा
त्याभाव: स
तिपूर्वं श्रुतमित्यत्रोत्क
विशेषादरः
व्याख्यान्तरें
दूषणं तत्र
भाष्यस
म्मतिः ॥
॥ ९ ॥