________________
क्खओवसमओ मइसुआई ।। १०४ ॥ " [ एवं सर्वप्रसङ्गः न - तदावरणानामक्षयोपशमात् ॥ मतिश्रुतज्ञानावरण-क्षयोपशमतो मतिश्रुते ] चि ॥ अपि चावध्यादौ गुणस्य हेतुत्वात्, तद्विरहादेव नैकेन्द्रियेषु तदुत्पत्तिसम्भवः, व्यक्तावधित्वादेर्गुणजन्यतावच्छेदकत्वकल्पने चातिगौरवात् न च व्यक्तमत्यादिकल्पनेऽपि व्यक्तमत्यादाविन्द्रियादिहेतुत्वकल्पने समानं गौरवमिति वाच्यम्, मीतलब्ध्यादावनुगतप्रत्यासत्तिविरहेण, इन्द्रियत्वादिनाऽहेतुत्वे विशिष्यतद्धेतुत्वावश्यकत्वात्, अत्र चानुगतस्य गुणस्य हेतुत्वेन तदसाम्यात्, स्यादेतद्, अवधिज्ञानस्य भवप्रत्ययकत्व - गुणप्रत्ययकत्वाभ्यां द्वैविध्यात्, विजातीयावधिज्ञान एव गुणस्य हेतुत्वात्, तद्विजातीयमव्यक्तं तदेकेन्द्रियाणां भविष्यति, युक्तं चैतत् मतिश्रुतयेोर्द्वयोर व्यक्तत्वकल्पनापेक्षयैकस्यैवावस्तस्वकल्पनौचित्यात्, मैवम्, भवप्रत्ययिकेऽपि तत्र गुणस्य हेतुत्वात्तत्र भवनिमित्ततामात्रेणैव तत्प्रत्ययकत्वव्यवहाराद्, भवस्य हेतुत्वेऽपि देवभवादेर्विशिष्यैव हेतुत्वात्, प्रत्येकमादायोक्तगौरवस्याविशेषाच्च, किश्वावध्यादेरात्ममात्रजन्यत्वं व्यवस्थितम्, न चैकेन्द्रियाणां ज्ञानोत्पत्तावात्ममात्राधिकार इति न तेषामवध्यादिकमित्याद्यूहनीयम् ॥ ८ ॥
उक्तो लक्षणभेदान्मतिश्रुतयोर्भेदः, अथ हेतुफलभावाचद्भेदमुपदर्शयति
श्रुतस्य मतिपूर्वत्वं श्रुतमित्यनयोर्भिदा || यौगपद्यं तु तलब्ध्यो- रिष्टमेवोपयोगयोः ॥ ९ ॥ 'मइपुव्वगं सुतम्' इत्यागमेन हि श्रुतस्य मतिहेतुकत्वं प्रतिपाद्यते, पूर्वपदस्य हेतुत्वार्थकत्वात्, 'सम्यग्ज्ञानपूर्विका पुरुषार्थसिद्धिः' इत्यादौ तथादर्शनात् पृधात्वर्थस्य कारण एवान्वयात्, तथाहि कारणेनैव सताऽनुप्रेक्षादिकालीनोहापरपर्यायेण मतिज्ञानेन श्रुतज्ञानं पूर्यते वृद्धि नीयत इति यावत्, एवश्च दृढस्मृतिरूपश्रुतज्ञाने ऊहस्य हेतुत्वं पर्यवस्यति, तथाभूतमत्यैव
एकेन्द्रियेष्व
वध्यादिज्ञा
नाभावसम
र्थनं, हेतुफ
लभावान्म
|तिश्रुतयोर्भेदोपदर्शनोप
क्रमश्व