________________
विवरणं श्रीज्ञानाजैवप्रकरणम्। ॥७॥
सम्भवति ॥ द्रव्यश्रुताभावेऽपि, भावश्रुतं सुप्तयतेरिव ] “ भावसुखं भासासो - अलद्विणो जुखए ण इयरस्स || भासाभिम्नुहस्स जयं, सोऊण य जं हवेज्जाहि ॥ १०२ || ” [ भावश्रुतं भाषाश्रोत्र - लब्धेर्युज्यते नेतरस्य । भाषाभिमुखस्य यत् श्रुत्वा च यद् भवेत् ] “ जह सुडुमं भाविंदिअ - नाणं दुव्विदिआवरोहे वि ।। तह दव्वसुआभावे, भावसु पत्थिवाईणं ॥ १०३ ॥ " [ यथा सूक्ष्मं भावेन्द्रियज्ञानं द्रव्येन्द्रियावरोधेऽपि ॥ तथा द्रव्यश्रुताभावे, भावश्रुतं पृथिव्यादीनाम् ] ति ॥ परममुनि · वचनप्रामाण्याचेदमित्थमवगन्तव्यम् । यत्त्वर्थग्रहणशक्तिरूपस्य लब्धीन्द्रियस्यार्थग्रहणे व्यापाररूपेणोपयोगेन्द्रियेण व्यवधानादहेतुत्वम्, आकरे व्यवस्थापितं च सुषुप्तौ ज्ञानानुत्पत्तिनिर्व्वाहायार्थग्रहणव्यापाररूपत्वमुपयोगस्य, तत्प्रमाणनिरूपणप्रस्तावाद् व्यक्तज्ञानमाश्रित्यावसेयम्, अन्यथा सामग्रीसत्त्वे उपयोगाभावोऽपि तदानीं कुत इत्यत्र किमभिधानीयं स्याद् विना क्षयोपशमवृत्यलाभं, तदभावे तु क्षयोपशमविशेषस्यैवोपयोगहेतुतया 'तद्धेतोः' इति न्यायेनान्ततस्तद्वारार्थग्रहणहेतुत्वकल्पनौचित्यात् ॥ स्वत एव केवलिनो विहाय शेषसंसारिणां तारतम्येन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्ञ्चकावरणक्षयोपशमनिष्पमा मतिरस्त्येवेति परममुनिवचनम् ॥ ७ ॥
नन्वेवमेकेन्द्रियाणामव्यक्तमतिश्रुते इव विनिगमनाविरहादव्यक्तावध्यादिप्रसङ्ग इत्याशङ्कायामाह -
न चाध्यादिकं तत् स्या- दागमानुपदेशतः । तत्कारणगुणाभावा- दक्षजन्यतया तथा ॥ ८ ॥ न खल्वेकेन्द्रियाणामव्यक्तं ज्ञानमवष्यादिकं भवितुमर्हति, केवलज्ञानस्य तावत् क्षायिकत्वाद्, अवधिमनःपर्याययोश्च क्षयोपशमस्य तत्कार्यादर्शनेन तेष्वनुपदेशात् उक्तश्च - "एवं सव्वपसंगो, न तदावरणाणमक्खओवसमा || महसुअनाणावरण
एकेन्द्रियेण्य
व्यक्तमति
श्रुतसमर्थनं, तेषु च मति
श्रुतवदवध्यादिसंभबाशंकानिरा
सश्व ॥
॥७॥