________________
यद्यप्येकेन्द्रियाणामव्यक्तं श्रुतं नोक्तलक्षणाक्रान्तं तथापि सुप्तयतिश्रुतस्योक्तजातिगर्भलक्षणाक्रान्तत्वाद् व्यक्तयुतस्यैव लक्ष्यत्वाद्वा न दोषः ।। न चाव्यक्तश्रुते मानाभावः १, स्वापाद्यवस्थोत्तरमपि व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिष इव प्रागप्यव्यक्तश्रुतस्यानुमानात् इति सम्प्रदायः॥ ननु भावश्रुतव्यक्ती भावस्य न तज्जातीयशक्त्यनुमापकत्वं पर्यायव्यक्तेद्रव्यरूपशक्तेरेव व्याप्यत्वात्, तावतैव सदसत्कार्यवादनिर्वाहात्, अन्यथाऽस्मदादीनामपि केवलज्ञानव्यक्तिजातीयतच्छा क्तप्रसङ्गात्, इति चेत, न, भावश्रुतेन तदा स्वकारणक्षयोपशमानुमाने तेन तत्कार्याव्यक्तश्रुतानुमानमित्याशयाद्, वस्तुतः सुषुप्ताद्यवस्थायामाप श्वासप्रश्वासादिसन्तानोऽव्यक्तचैतन्यप्रयुक्त एवेति तेन तदनुमानम्, अत एव सुप्तमूच्छितादीनां जलसेकादिप्रतिकारेणाऽव्यक्तचैतन्यमेवाभिव्यज्यत इति अनुभवः, सुषुप्तोत्थितस्य ' सुखमहमस्वाप्तं न किञ्चिदवेदिषम्' इत्यनुभवस्तु नकिञ्चित्पदोपरागेणाऽव्यक्तज्ञानमेवावगाहते । स्यादेतत् इन्द्रियवृत्तिनिरोधेन सुषुप्तौ ज्ञानमनुपपन्नं, न च तदैवाघ्राणोपनीत कुसुमगन्धादि - मानापतिः, जन्यज्ञानत्वावच्छिन्नं प्रति त्वङ्मनोयोगस्य विजातीयात्ममनोयोगस्य वा हेतुत्वेन तदानीं तदभावे जन्यज्ञानमात्रस्यैवानुपपत्तेरिति, मैवं, द्रव्येन्द्रियोपरोधेऽपि तदानीं भावेन्द्रियज्ञानसम्भवाद्दर्शनावरणकर्मप्रकृतिविशेषरूपायाः सुषुप्तेर्व्यक्तचक्षुर्दर्शनादेरेवोपघातित्वात्,अत एव ‘'भाषा श्रोत्रलब्धिविरहेण सुप्तयतेरिवै केन्द्रियाणां भावश्रुतं न भवति' इत्यपि परास्तं, द्रव्येन्द्रियोपरोधेऽपि भावेन्द्रियज्ञानवद् भाषाश्रोत्रलब्धिद्रव्यश्रुतादिवैकल्ये ऽपि तेषां भावश्रुतसम्भवाद्, वृद्धिसङ्कोचनादिनिधान मूलनिधानकामिनीस्पर्शजनितातिशयलिङ्गकाहार भयपरिग्रहमैथुनसञ्ज्ञानां तेषु साक्षादुपलम्भाच्च । आह च भाष्यकार:- "जइ सुअलक्खणमेयं, तो न तमेगिंदिआण संभवइ ॥ दव्त्रसुझाभावम्मि वि, भावसुअं सुतजइणो व्व ॥ १०१ ॥ " [यदि श्रुतलक्षणमेतत्ततो न तदेकेन्द्रियाणां
२
लक्षणभेदाम्मतिश्रुतयोर्भेदप्रसङ्गे
श्रुतो लक्ष
णस्याव्या
प्त्यादिपरि हारेण निष्ट
ङ्कनं, एकेन्द्रियेष्वपि श्रुतसिद्धिश्व ॥