SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना प्रकरणम् ॥ RECEIRECEKAR यः शब्दानुगमाहते ॥ अनुविद्धमिव ज्ञानं, सर्व शब्देन गम्यते ॥१॥" इति वैयाकरणमतं तदसत्, केवलार्थदर्शनं विना संस्कारोबोधाभावेन शब्दानि सादर्थभासकसामग्रथैव शब्दावभासाभ्युपगमे चाव्युत्पन्नानामपि तदवभासप्रसङ्गात, व्युत्पन्नानां विविच्य पदोपरागेणार्थप्रत्ययोऽव्युत्पन्नानां तु सामान्यत इति चेत्, अर्थविशेषे भासमाने शब्दविशेषनिर्मासस्यैव प्रत्यक्षसिद्धत्वादिति दिग् । ननु यद्येते मतिश्रुतलक्षणे तदा, 'अभिणिबुझइत्ति आभिणियोहिअं, सुणेइ ति सुति सूत्रोक्ते लक्षणे कथं समगसातामिति चेत्, अत्रासाधारणधर्मरूपलक्षणोक्तस्तत्र च व्युत्पत्तिनिमित्तरूपतदुक्तेः, तथापि श्रूयत इति श्रुतमिति कर्मव्युत्पत्त्या शब्द एव श्रुतं स्यात्, न चायमात्मभाव इति चेत्, वक्तृमुखनिर्गतस्य तस्य श्रोतृश्रुतज्ञानकारणत्वेन वक्तृश्रुतोपयोगस्य च व्याख्यानादौ शब्दकारणत्वेनोपचारादेव तस्य श्रुतत्वाभिधानात्, परमार्थतस्तु श्रुणोतीतेि श्रुतमिति कर्तृव्युत्पच्या जीवानन्यश्रुतोपयोगस्यैव श्रुतपदप्रवृत्तिनिमित्ताक्रान्तत्वात ॥ आह च-"जमभिणिबुज्झइ तमभिणिबोहो जं सुणइ ते सुअंभणि ॥ सई सुणइ जइ तओ नाणं तो नाऽऽयभावो तं ॥९८॥ [यदभिनिबुध्यते तदभिनिबोधो यत् शृणोति तत् श्रुतं भणितं ॥ शब्दं शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ] सुअकारणं जओ सो सुअंच तकारणं ति तो तम्मि ॥ कीरइ सुओवआरो, सुअं तु परमत्थओ जीवो ।। ९९॥" [श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् ॥ क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवति ॥ अत्रापि व्युत्पत्त्यर्थमुपजीव्य जातिगर्भलक्षणे न दोषः ॥६॥ __ यथाश्रुतं लक्षणमव्याप्तिप्रसङ्गपरिहाराभ्यां समर्थयति ॥ कथमेकेन्द्रियाणां तद्, नूनं सुप्तयतेरिव ॥ भाषाओंत्राद्यभावेऽपि, क्षयोपशमसम्भवम् ॥७॥ शब्दाननविद्धं ज्ञानमिव नास्तीति बैयाकरणमतस्य खण्डनम्, प्रकृतमतिश्रुतलक्षणविलक्षणसूत्रोक्त लक्षणसङ्गतत्वोपवर्णनं OMG
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy