SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ योग्यत्वं वा, त्रितयस्य तस्य साकारत्वाच्छन्दविषयत्वादभिलापयोग्यत्वादिदमव घ्यादावतिव्याप्तं भाषावर्गणादिमतोऽभिलाप्यज्ञानस्यैवाभिलाप्यप्रयोजकत्वाच्च, अथ शब्दोपरागेणार्थावगाहित्वं तत्, तदुपरागश्च संज्ञास्मृतिजन्यतावच्छेदको विषयताविशेषः स च नावध्यादौ तस्य स्मृत्यजन्यत्वाद्, अस्ति च श्रुतज्ञाने सर्वत्र सः पूर्वं शब्दार्थयोः सङ्केतग्रहादर्थदर्शनोबुद्धसंस्कारेण प्रतिसम्बन्धिशब्दस्मरणोत्तरमेव तदभ्युगमात्, अत एव घटमनुभवामीति शब्दोपरागेणैव तदनुव्यवसाय इति चेत्, न, ईहादिरूपमतिज्ञानातिव्याप्तेः, संज्ञास्मरणाजन्यशाब्दबोधादावव्याप्तेरवग्रहोत्तरं संज्ञास्मरणाविलम्बेनैवेहादिदर्शनाच्च, एतेन " शब्दानुपरागेणाऽर्थावग्राह्मवृत्तिज्ञानत्वसाक्षाद्व्याप्यजातिमत्त्वं तत्' इत्यपि निरस्तमिति चेत्, अत्रोच्यते, पदधीविषयकधीजन्यत्वाव्यभिचारिजातिमत्त्वं तत्, विवक्षारूप श्रुतस्यापि पदेष्टसाधनताधीरूपपदविषयकधीजन्यत्वादुपदेश निरपेक्षेन्द्रियजन्यज्ञानस्य च मतिज्ञानरूपत्वेनालक्ष्यत्वात् यद्वा व्यक्तश्रुतस्यैव लक्ष्यत्वेनाऽव्यक्तश्रुताव्याप्त्यभावात्, अथवा शब्दानुपरागेणार्थावग्राह्यवृतिज्ञानत्वसाक्षाद्व्याप्यजातिमत्त्वं तद् अस्ति हि सर्वत्र श्रुतेऽर्थदर्शनोबुद्धसंस्कारप्रमृतशब्दोपरागशालित्वम्, न तु मतिज्ञानादौ, अवग्रहादिरूपे तत्र तदभावात् न च संस्कारजन्यत्वेन स्मृतित्वापत्तिः प्रत्यभिज्ञाया इव संस्कारजन्यस्यापि श्रुतविशेषस्यातथात्वसम्भवात्, न च संस्कारेणेहाद्युत्पत्तिकाले स्मृत्युत्पत्त्यापत्तिः स्मृतिसामग्रयपेक्षयाऽनुभवसामग्रथा बलवत्वाद्, अथवा श्रुतज्ञानावरण कर्मक्षयोपशमप्रयोज्य एव सर्वत्र श्रुते शब्दोपरागः, अत एवैकेन्द्रियाणां तादृशसंस्कारविरहेऽपि न क्षतिरिति । अर्थावभासिनि श्रुते समानसंवित्संवेद्यतयैव पदोपराग इत्यपरे, प्रत्यक्षे विद्यमानत्वमिव श्रुतज्ञाने पदवाच्यत्वं संसर्गतयैव भासते स एव शब्दोपराग इत्यन्ये, यत्तु शब्दाननुविद्धं ज्ञानमेव नास्ति । तदुक्तं " न सोऽस्ति प्रत्ययो लोके, साकारत्वशब्दविषय. स्वाभिलाप योग्यत्वशदोपरागेणार्थावगाहित्यै तदन्यतमरू पस्य साभिळापत्वस्य श्रु तानुसारित्व रूपतायाः, खण्डनं तत्प्रति विधानं च ।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy