________________
सविवरणं श्रीज्ञाना
प्रकरणम्॥
नापि पदधीजन्यत्वाव्यभिचारिजातिमत्त्वं, शाब्दोपमित्यतिरिक्ताव्याप्तेः, श्रुतनिश्रितमतिज्ञानेऽतिव्याप्तेश्च । स्यादेतव, श्रुतत्वजातिः साक्षात्परम्परया वा पदधीजन्यत्वं न व्यभिचरति, अभिलापप्लावितानां घटत्वादीनामपि पचरागत्वादेरिवोपदेशसहकृतेन्द्रियवेद्यत्वात्, अन्यथा कदाचिदप्यनाकलितघटपदसकेतानां घटत्वादिग्रहप्रसङ्गात्, अथ पद्यरागत्वादिकमप्युपदेशासहकृतेन्द्रियवेद्यमेव 'कान्तिविशेषवान्मणिः पाराग' इत्युपदेशस्तु पद्मरागपदवाच्यत्वोपमितावुपयुज्यत इति चेत. न, एवं सत्यनाकलितोपदेशानां पद्मरागमहं वेद्यीत्यनुव्यवसायप्रसङ्गात्पबरागपदाभिलापप्रसङ्गाच्च, मतिज्ञानं तु न तथेति न तत्रातिव्याप्तिः। न च तथापि पदधीजन्यत्वाव्यभिचारिश्रुतनिश्रितत्वजातिमति मतिज्ञानेऽतिव्याप्तिस्तस्य सङ्केतग्रहशाब्दबोधप्रसूतसंस्कारजन्यत्वनियमात्संस्काराद्वारकजन्यत्वविवक्षणे शब्दानुभूतस्मरणाव्याप्तरिति वाच्यम् , जातिपदस्य ज्ञानत्वसाक्षादव्याप्यजातिपरत्वे दोषाभावात् , श्रुतनिश्रितस्यापि संस्कारद्वारा श्रुताजन्यत्वाच, अन्यथा तस्य स्मृतित्वापत्तेः, अथ "पुवि सुअपरिकम्मिअ-मइस्स जं संपयं सुआईअं। तं सुअनिस्सि" इत्यागमेन व्यवहारकाले श्रुताननुसारित्वे सति श्रताभ्यासपाटवप्रमतत्वस्य निश्रार्थत्वे मतेर्दृढतरसंस्कारद्वारा श्रुतजन्यत्वं तस्य निर्वाधमिति चेत्, न, तत्राऽभ्यासपाटवपदस्य क्षयोपशमपाटवार्थकत्वात्, अन्यथा संस्कारस्यानुभूतमात्रोपनायकतया श्रुतनिश्रिते श्रुताननुभूतानां नानाधर्माणामभानप्रसङ्गाद्, एवं सूत्रेऽपि परिकार्मितपदं पटकृतपरं, मतिपदं मतिलब्धिपरमिति न कोऽपि दोषः, अन्यथा तत्र श्रुतातीतत्वस्यानुक्तिसहत्वात्कालव्यवधानस्य विविच्य दुहत्वात्, मैवं, पदधीप्रयोजकविवक्षारूपश्रुतज्ञानस्य पदज्ञानाजन्यत्वेन श्रुतत्वस्य पदधीजन्यत्वव्यमिचारित्वात्परागत्वादिग्रह इव घटत्वादिग्रहेऽप्युपदेशानपेक्षणाच्च, नापि साभिलापत्वं, तद्धि साकारत्वं वा शन्दविषयत्वं वामिलाप
तत्र शब्दज
न्यत्वशब्द धीजन्यत्वपदजन्यपदा
योऽपस्थितिजन्यत्वपदधीजन्यत्वाव्यभिचारिजातिमत्वानां श्रुता नुसारित्व रूपताया: खण्डनम् ।
ॐ