SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भिन्ने स्वाम्यादिसाधर्म्या - यद्यपि मतिश्रुते ॥ लक्षणादिकृतो भेद - स्तथापि स्फुटमेतयोः ॥ ५ ॥ साधर्म्य खल्वभेदो वैधर्म्यं च भेदः, न चानयोरसमावेशः, प्रमेयत्वादिना सर्वेषां साधर्म्येऽपि मिथो भेददर्शनात्, एवं च मदि श्रुतयोः स्वाम्यादिसाम्येऽपि लक्षणभेदादविरुद्धो भेदः । उक्तञ्च - "सामित्ताइविसेसा - भावाओ महसुएगया णाम । लक्खणभेआइकयं, णाणत्तं तयविसेसेवि ॥ ९६ ॥" [ स्वामित्वादिविशेषाभावाद्मतिश्रुतैकता नाम । लक्षणभेदादिकृतं नानात्वं तदविशेषेऽपि ] अथ भेदे लक्षणादिकृतत्वं तज्ज्ञानज्ञाप्यत्वं साध्यसाधनयोरभेदे न सम्भवतीति चेत्, न, श्रुतलक्षणेन श्रुते मतिवैधर्म्यरूपस्य तस्य मत्यवृत्तिधर्मत्वेन साध्यत्वे तदविशेषाच्छ्रते श्रुतत्वग्रहेऽपि मत्यवृत्तित्वेन तदग्रहेसि द्वसाधनानत्र का शादिति ॥ ५॥ अथ लक्षणादयश्व लक्षण - हेतु-फल-भाव-भेदे-न्द्रियविभाग - वल्का - Sक्षर - मूकेतराणि, तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथमं लक्षणभेदमेवाह – श्रुतं श्रुतानुसार स्यान्मतिरन्यत्परोक्षजम् ॥ श्रुतं शब्दात्मकं गौणं, व्युत्पत्यर्थात्तु ( तु) लक्षणे || ६ || श्रुतानुसारि ज्ञानं श्रुतं, तदननुसारित्वे सतीन्द्रियमनोजन्यं च ज्ञानं मतिः । एवं च - "इन्दियमणोनिमित्तं, जं विभाणं सुआणुसारेणं ।। णिययत्थुत्तिसमत्थं तं भावसुअं मई सेसं ॥१००॥ " [ इन्द्रियमनोनिमित्तं, यद्विज्ञानं श्रुतानुसारेण ।। निजकार्थोक्तिसमर्थ, तद्भावश्रुतं मतिः शेषम् ॥ ] इत्यत्र इन्द्रियमनोनिमित्तमिति विशेषणं शेषमित्यत्र योज्यं श्रुतानुसारित्वस्यैव श्रुतलक्षणत्वे निजकार्थोक्तिसमर्थत्ववत्तस्य स्वरूपविशेषणत्वेनाऽव्यावर्त्तकत्वात् श्रुताननुसारित्वस्यावध्यादाव - |तिप्रसक्तत्वेन तद्वारणाय मतिलक्षणे तु तदुपयुक्तमिति, अथ किं तत् श्रुतानुसारित्वं न तावच्छन्द जन्यत्वं शब्दावग्रहादीनामपि तथात्वात् नापि तद्धीजन्यत्वं तदनुव्यवसायेऽतिव्याप्तेः, नाऽपि पदजन्यपदार्थोपस्थितिजन्यत्वं शाब्दातिरिक्त श्रुतज्ञानाऽव्याप्तेः, भाष्यसंवादेन |मतिश्रुतयोः स्वाम्यादि साधर्म्याद भेदेऽपि क क्षणादिकृतो भेद:, मति श्रुतयो लक्षणभेदनिरूपणं, श्रतानुसा रिवे प्रश्नश्व ||
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy