SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सविवरणं [ श्रीज्ञाना णेव प्रकरणम्॥ ॥४॥ [ प्रत्यक्षं द्विविधं प्रज्ञतं । तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च ॥] [परोक्षं द्विविध प्रज्ञप्तं । तद्यथा-आमिनिबोधिकज्ञानपरोक्षं श्रुतज्ञानपरोक्षं चेति ॥ ] प्रदेशान्तरे तस्य परोक्षत्वेनापि प्रतिपादनाव,न चाभिनिबोधकत्वस्य सामानाधिकरण्येन परोक्षत्वप्रतिपादनान सूत्रविरोधः, ऐन्द्रियकस्य तस्य प्रत्यक्षत्वेऽपि लैङ्गिकस्य तस्य परोक्षत्वात् । एवं हि 'इंदिअपचक्खेंइत्यत्र प्रत्यक्षपदे न लक्षणाऽक्षप्रतिगतत्वस्य व्युत्पत्तिनिमित्तत्वेऽपि स्पष्टताया एव प्रत्यक्षपदप्रवृत्तिनिमित्तत्वात्, अत एवाक्षपदस्येन्द्रियार्थकत्वेऽपि न क्षतिः, प्रतिपूर्वादक्षिशब्दाचव्ययीभावापत्यैव न तादृशं रूपं 'अर्श आदेरचोऽसार्वत्रिकत्वात्'इत्याहुः। ज्ञानस्य स्वसंविदितत्वेन प्रत्यक्षेऽपि प्रत्यक्षवृत्तेस्तदपीष्टमित्यन्ये, विषयताया वृत्त्यनियामकत्वादिदमयुक्तमित्यपरे, तादृशादपि प्रत्यक्षशब्दात् प्रत्ययान्तरमिच्छन्त्येके, न च लक्षणवाधाल्लक्षणाऽऽवश्यकी, लक्षणासिद्धौ लक्षणबाधस्तत्सिद्धौ च सेत्यन्योन्याश्रयादिति चेत्, न, व्यवहारेण तथाबोधसम्भवेऽपि व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं व्यवस्थापयता निश्चयेन तथाबोधाऽसम्भवादुक्तव्यवस्थयैव सूत्रोपपत्तेः,तदिदमभिप्रेत्योक्तं 'तथा च सति मतिश्रुतयोः परोक्षत्वे तस्यापि पारमार्थिकं परोक्षत्वमेवेति' सामानाधिकरण्येन बाधानवताराच्च न सामाधिकरण्येन बोधकल्पनापीति प्रतिभाति । यत्तु नोइन्द्रियप्रत्यक्षामित्यत्र नोइन्द्रियपदस्य मनोथेकत्वात्तन्निमित्तकं ज्ञानं प्रत्यक्षमेवेति, तदनागमिक, तत्र नोइन्द्रियपदस्येन्द्रियाभावार्थकत्वादन्यथाऽपयोतावस्थायामपि भाविनोऽवधिज्ञानस्यामनस्कप्रत्यक्षस्य चासाहप्रसङ्गादिति ॥ ४॥ नन्वेवं कृता सप्रसङ्ग विभागव्यवस्था, न चेयमुपपत्तिमती मतिश्रतयोः स्वाम्यादिसाधर्म्यप्रतिपादनेन तदभेदशङ्काया एवोदयात, न च भेदगर्भसाधर्म्यज्ञानान तदुदय इति वाच्यम, असाधारणधर्मज्ञानेन तदुदयादित्यत आह इन्द्रियनज्ञानस्य परोक्षस्वकथनमुत्सूत्रमिति प्रश्न प्रतिविधानम् , तत्रा न्यपि शङ्कासमा धानाम्या चर्चितम् ॥ . LAPLOMAN ॥४ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy