________________
श्रीज्ञानबिन्दुअकरमम् ॥
ॐ १११ ॥
क्षायिकभावत्वेन नाशायोगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवदुपपत्तिः क्षायिकत्वेऽपि तस्य योगस्थैर्य निमित्तकत्वेन निमित्तनाशनाश्यत्वात्, केवलज्ञानस्य चानैमित्तिकत्वादुत्पत्तौ ज्ञप्तौ चाबरणक्षयातिरिक्तनिमित्तानपेक्षत्वेनैव तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितेः, अन्यथा ‘सापेक्षमसमर्थम्' इति न्यायात्तत्राप्रामाण्यप्रसङ्गात् । एतेन 'केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केवलज्ञानक्षणिकत्वम्' इत्यप्यपास्तम्, अनैमित्तिके क्षणिकत्वायोगात्, अन्यथा तत्क्षण एव तत्क्षणवृतिकार्ये नाशक इति सर्वत्रैव सूक्ष्मर्जुसूत्र नय साम्राज्यस्य दुर्निवारत्वादिति किमतिपल्लवितेन ? । नन्वियमनुपपत्तिः क्रमोपयोगपक्ष एवेत्यक्रमौ द्वावुपयोगौ स्तामित्याशङ्कते मल्लवादी, "भवेद्वा समयमेककालमुत्पादस्तयोरिति" तत्रैकोपयोगवादी ग्रन्थकृत् सिद्धा न्तयति, हंदि ज्ञायतां, द्वावुपयोग नैकदेति, सामान्य विशेषपरिच्छेदात्मकत्वात्केवलज्ञानस्य, यदेव ज्ञानं तदेव दर्शनमित्य - त्रै निर्भरः, उभयहेतुसमाजे समूहालम्बनोत्पाद स्यैवान्यत्र दृष्टत्वान्नात्रापरिदृष्टकल्पना क्लेश इति भावः । अस्मिन्नेव वादे केवलिनः सर्वज्ञतासम्भव इत्याह--" जइ सव्वं सायारं, जाणइ एकसमएण सव्वष्णू || जुज्जइ सया वि एवं, अहवा सव्र्व्वं न जाणाइ ॥। २ - १० ॥" यदि सर्व सामान्यविशेषात्मकं जगत्, साकारं तत्तजातिव्यक्तिवृत्तिधर्मविशिष्टं । साकारमिति क्रियाविशेषणं वा । निरवच्छभतत्तज्जातिप्रकारतानिरूपिततत्तद्वयक्ति विशेष्यतासहितं परस्परं यावद्द्रव्यपर्याय निरूपितविपयतासहितं वा यथा स्यात्तथेत्यर्थः । जानात्येकसमयेन सर्वज्ञः पश्यति चेति शेषः, तदा सदापि सर्वकालं युज्यते, एवं सर्वज्ञत्वं सर्वदर्शित्वं चेत्यर्थः । अथवेत्येतद्वैपरीत्ये, सर्व न जानाति सर्वं न जानीयादेकदेशोपयोगवर्त्तित्वान्मतिज्ञानवदित्यर्थः । तथा च केवलज्ञानमेव केवलदर्शनमिति स्थितम्। अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह - " परिसुद्धं सायारं, अविअत्तं दंसणं अणायारं ॥ ण य खीणा -
केवलज्ञाननिरूपणे
केवलज्ञान
दर्शनयोरै
क्यमित्यस्मि
न्यक्ष एव सर्वज्ञतास
म्भवस्य युचित:
साधनम् ॥
।।। १११ ।।