________________
R
भावपि सम्मुग्धोपलक्ष्यविषयकतादृशबोधस्वीकारे च 'पर्यायोपर्यवसित' इत्यादेरपि प्रसक्तिद्रव्यार्थतया केवळज्ञानकेवलदर्शनयोरपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः, अन्यथा द्रव्यार्थत्वायोगात् । तदेवं क्रमाम्युपगमे तयोरागमविरोध इत्युपसंहरबाह-"संतमि केवले दं-सणम्मि नाणस्स संभवो णत्थि । केवलनाणम्मि य दं-सणस्स तम्हा अनिहणाई ॥२-८॥" स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेज्यतराभावप्रसङ्गः, तथा चोक्तवक्ष्यमाणदषणगणोपनिपाता,तस्माद् द्वावप्युपयोगी केवलिनः स्वरूपतोऽनिधनावित्यर्थः । इत्थं ग्रन्थकूदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्षं दर्शयितुमाह
"दंसणनाणावरण-खए समाणम्मि कस्स पुचयरा(रं) ॥ होज व समओप्पाओ, हंदि दुवे णस्थि उवओगा ॥२-९॥" | सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत ? अन्य तरोत्पादे तदितरस्याप्युत्पादप्रसङ्गात् , अन्यतरसामच्या
अन्यतरप्रतिबन्धकत्वे चोभयोरप्यभावप्रसङ्गात् " सव्वाओ लद्धीओ सागारोवओगोवउत्तस्सेति” वचनप्रामाण्यात्प्रथमं केवल ज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेत्, न, एतद्वचनस्य लब्धियोगपद्य एवं साक्षित्वादुपयोगक्रमाक्रमयोरोदासीन्यात् । योगपद्येनापि निवाऽर्थाद्दर्शनेऽनन्तरोत्पश्यासिद्धेः एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनो। क्रमिकापयोगद्वयधाराया निर्वाहयितमशक्यत्वाच । अथ ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपच्छमस्थकालीनदर्शनात प्रथमं केवलज्ञानोत्पत्तिः केवलदर्शने केवलज्ञानत्वेन विशिष्य हेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिः, ततथ क्रमिकसामग्रीद्वयसम्पच्या क्रमिकोपयोगयधारानिर्वाह इति, एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पत्यस्वीकार एव गतिरिति चेत् ,न, "दसणपुब्बं नाणं (२-२२)” इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य
FOCALCREARCAREECRETAR IA
केवलज्ञान निरूपणे केवलज्ञान दर्शनयोरू पयोगाक्रम
वादिमतेन क्रमवादिमनं कानिरस्य ज्ञान:
दर्शनयोः के वलिन्यैक्स
मिति स्क | सिद्धान्त
मर्थनेक
क्षणविषमा हूँ युदृष्टान्तेन
क्रमपक्षनि रासश्च।
RCCESARKA