SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञान बिन्दु प्रकरणम् ॥ ॥ ९७ ॥ भभावकल्पनं तु स्ववासनामात्र विजृम्भितं, शब्दसंसृष्टाया मतेरेव श्रुतत्वपरिभाषणं तुं न पृथगुपयोगव्यापकमिति शाब्दज्ञानमेव भुतज्ञानं न त्वपरोक्षमिन्द्रियजन्यमपीत्याहुः । नव्यास्तु "श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेषजिज्ञासायां तन्मूलकमत्यपायांशप्रवृत्तौ न पृथगवग्रहकल्पनागौरवं, शाब्दसामान्यज्ञानस्यैव तत्रावग्रहत्वात् । न चाशाब्दे शाब्दस्य तत्सामय्या वा प्रतिबन्धकत्वधौव्यान्नेयं कल्पना युक्तेति वाच्यम्, अशाब्दत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्दमूलमतिज्ञानस्यापि प्रवेशात्, अन्यथा श्रुताभ्यन्तरीभूतमतिज्ञानोच्छेदप्रसङ्गात् । किश्च शाब्दज्ञानरूपश्रुतस्यावग्रहादिक्रमवतो मतिज्ञानाद्भिन्नत्वोपगमेऽनुमानस्मृतितर्कप्रत्यभिज्ञानादीनामपि तथात्वं स्यादित्यतिप्रसङ्गः, सांव्यवहारिकप्रत्यक्षत्वाभावस्यापि तेषु तुल्यत्वात् । यदि चावग्रहादिभेदाः सांव्यवहारिक प्रत्यक्षरूपस्यैव मतिज्ञानस्य सूत्रे प्रोक्ता अनुमानादिकं तु परोक्षमतिज्ञानमर्थतः सिद्धमितीष्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि परोक्षमतिज्ञानमेवाङ्गीक्रियतां किमर्धजरतीयन्यायाश्रयणेन । मत्वा जानामि श्रुत्वा जानामीत्यनुभव एवानयोर्भेदोपपादक इति चेत्, न, अनुमाय जानामि स्मृत्वा जानामीत्यनुभवेनानुमानस्मृत्यादीनामपि भेदापत्तेः । अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीष्यते, शाब्दत्वमपि किं न तथा १ । मत्वा न जानामीति प्रतीतिस्तत्र बाधिकेति चेत्, न, वैशेषिकाणां नानुमिनोमीति प्रतीतेवि शाब्दे तस्या विशेषविषयत्वात् । नच निसर्गाधिगमसम्यक्त्वरूप कार्य भेदान्मतिश्रुतज्ञानरूपकारणभेद इत्यपि साम्प्रतम्, तत्र निसर्गपदेन स्वभावस्यैव ग्रहणात् । यद्वाचकः - ( प्रशमरति ) “शिक्षागमोपदेश - श्रवणान्ये कार्थिकान्यधिगमस्य । एकार्थः परिणामो, अवंति निसर्गः स्वभावश्च ॥ २२३ ॥ इति" । यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एवाश्रयणीयः । तदिदमभिप्रेत्याह महा श्रुतज्ञाननिरूपणे श्रु तस्य मतिज्ञानादभि न्नत्वमेवेतिनव्यमतस्यो पदर्शनम् ॥ ।। ९७ ।। -
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy