SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ वादी सिद्धसेनः(निश्चयद्वात्रिंशिका)"वैयर्थ्यातिप्रसङ्गाम्यां,न मत्यभ्यधिकं श्रुतम्।।१२।इति।" इत्याहुः॥इतिश्रतज्ञानम्।। "अवधिज्ञानत्वं रूपिंसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वम्।।" रूपिसमव्याप्यविषयताशालिज्ञान परमावधिज्ञानं "रूवगयं लहइ सव्वं" (गा.६८५) इतिवंचनाद तवृत्तिर्ज्ञानत्वव्याप्याजातिरवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगद्व्यापकविषयताकस्य केवलस्य रूपिव्यापकविषयताकत्वं नियमात तवृत्तिकेवलत्वमादाय केवलज्ञानेऽतिव्याप्तिः, समव्याप्यत्वदाने त्वरूपिणि व्यभिचारात्केवलज्ञानविषयताया रूप्यव्याप्यत्वात्तन्निवृत्तिः।नच परमावधिज्ञानेऽप्यलोके लोकप्रमाणासङ्ख्यारूप्याकाशखण्डविषयतोपदर्शनादसम्भवः । यदि तावत्सु खण्डेषु रूपिद्रव्यं स्यात्तदा पश्येदिति प्रसङ्गापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राप्रामाण्यं, स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलावाधात् । एतेनासद्भावस्थापना व्याख्याता बहिर्विषयताप्रसञ्जिका तारतम्येन शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मसूक्ष्मतरस्कन्धावगाहनफलवतीति न प्रसङ्गापादनवैयर्थ्यम् । यद्भाष्यं-"वढंतो पुण बाहिं, लोगत्थं चेव पासई दब्बं ॥ सुहमयरं सुहुमयरं, परमोही जाव परमाणु ॥ ६०६॥" इति । अलोके लोकप्रमाणासङ्ख्येयखण्डविषयतावधेरिति वचने विषयतापदं तर्कितरूप्यधिकरणताप्रसञ्जिततावदधिकरणकरूपिविषयतापरमिति न स्वरूपबाधोपीति तत्त्वम् । जातौ ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनःपर्यायज्ञानसाधारणजातिविशेषमादाय मनःपर्यायज्ञानेऽतिव्याप्तिः,अवधित्वेन साङ्कर्येण तादृशजात्यसिद्धेः। नच 'पुद्गला रूपिण' इति शाब्दबोधे रूपिसमव्याप्यविषयताकेऽतिव्याप्तिा, विषयतापदेन स्पष्टविशेषाकारग्रहणादिति सोपः ॥ इत्यवधिज्ञानप्ररूपणम् ॥ .. | अवविज्ञान निरूपण तत्रावधिज्ञानरूक्षणे विरोंषणानां व्यावृत्त्युपदर्शनम् ।। RECERE S
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy