________________
तदेवं सप्रसङ्गं व्याख्यातं भेदतो मतिज्ञानं, अथ तत्पर्यायानभिधित्सुराह
suit च मीमांसा, मार्गणा च गवेषणा ॥ संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् ॥ ३३ ॥
हाऽन्वयव्यतिरेकधर्मगवेषणा, अपोहो निश्चयो, मीमांसा विमर्शोऽपायात्पूर्व ईहायाश्चोत्तरः सम्भवसम्प्रत्ययः, मार्गणमन्वयधर्मान्वेषणं, गवेषणं व्यतिरेकधर्मालोचनं, संज्ञाऽवग्रहोत्तरभावी मतिविशेष एव स्मृतिः पूर्वानुभूतार्थानुसन्धानम्, मतिः कथचिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुयथातच्चालोचनं, सर्वमिदं कथञ्चिद्भेदेऽप्याभिनिबोधिकमेव मन्तव्यम् । यदाह परममुनिः - [ नियुक्तिगाथा] "ईहा अपोह वीमंसा, मग्गणा च गवेसणा ॥ सण सई मई पण्णा, सव्वमाभिणिवोहियं ॥ ३९६ ॥” [ईहाऽपोहो विमर्शो, मार्गणा च गवेषणा।। संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् || ] भाष्यकृदप्याह - " होइ अपोहोऽवाओ, सई धिई सन्धमेव महपन्ना । । ईहा सेसा, सव्यं इदमाभिणिबोहियं जाण ।। ३९७ ।। भवत्यपोहोपायः स्मृतिर्धृतिः सर्वमेव मतिप्रज्ञे ॥ ईहा शेषाणि सर्वमिदमामिनिवोधिकम् ] अत्र मतिप्रज्ञाऽभिनिबोधिक बुद्धिलक्षणाश्चत्वारः शब्दा वचनपर्यायास्तैर्मतिज्ञानसामान्याभिधानाद्, अवग्रहादिशब्दाश्चाऽर्थ पर्यायास्त| देकदेशाभिधानादू, अथवा सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनपर्यायाः, तदभिधेयार्थस्यात्मभूता भेदास्त्वर्थपर्याया; यथा कनकस्य कटककेयूरादयः, तदाह - " महपन्नाभिणिबोहिय - बुद्धीओ होन्ति वयणपजाआ । जा ओग्गहाइसना, ते सब्बे अत्थपञ्जाया ।। ३९८ ॥” [ मतिप्रज्ञाभिनिवोधिकबुद्धयो भवन्ति वचनपर्यायाः ॥ या अवग्रहादिसंज्ञा ते सर्वे अर्थपर्यायाः ॥ ] नव पर्यायास्तावद् भेदा एव तन्निरूपणं चात्राप्रकृतं शब्दमेदादर्थमेदभ्रमनिरासाय मतिपर्यायज्ञानशब्दाभिधानस्यैवात्र
१५
मतिज्ञानपर्यायकथनं ईहादीनामाभिनिबोधि
कत्वे भाष्य
संवाद: मतिप्रज्ञादीनां वचनपर्याय
त्वमवग्रहादीनामर्थ -
पर्यायव
चेतिप्ररूपणम् ॥