SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना | प्रकारान्तरे|ण चतुर्मिसमर्भािषाद्रव्यैर्लोक प्रकरणम् ॥ ॥८४॥ समये पमन्यात दिक् ॥ ३० क्त्यागमक्ष AAAAAACHAR भवेत्ततः सोऽपि त्रिसामयिकः॥] स्यादेतत-मथिमात्र एव कपाटं कारणमिति कपाटं विना मथोऽभावाच्चतुःसामयिक्येव भाषाया लोकव्याप्तियुज्यते, मैवं, मध्यनुकूलविस्तारे कपाटस्येव पराघातस्यापि शक्तत्वादुभयोरप्येकशक्तिमत्त्वेन मथिहेतुत्वाद् अत एवापराघातस्य स्कन्धस्य लोकव्याप्तौ कपाटापेक्षेति सिद्धान्तः, अथ जातस्यैव दण्डस्यैव विस्तारे पराघातः क्षमो नतूत्पद्यमानस्य तस्य न वोदासीनद्रव्यमात्रस्यान्यथा द्वितीयसमय एव लोकव्याप्तिप्रसङ्गात्, न च स्वभावमात्रं समयविलम्बनियामकमतिप्रसङ्गादिति चेत्, तर्हि प्रथमसमये भाषाद्रव्याणां षड्दण्डास्त एव प्रसमरा द्वितीयसमये षष्मन्थानस्तृतीयसमये चान्तरालपूरणमिति प्रागुक्ता वस्तुस्थितिरभ्युपगम्यता, अपराघातद्रव्याव्याप्तावेव दण्डकपाटमन्थानहेतुत्वादिति दिक् ॥ ३० ॥ प्रसगादनादेशान्तरं दूषयति- दण्डमेकदिशं कृत्वा, चतुर्भिः समयैः परे ॥ लोकपूरणमिच्छन्ति, न च युक्त्यागमक्षमम् ॥ ३२॥ परे प्रत्युत भाषाद्रव्याणां चतुभिः समयैर्लोकपूरण इमां प्रक्रियामाहुः, प्रथमसमये ताव दिशि दण्डो भवति, द्वितीयसमये च तत्र मन्थाः, अधोदिशि पुनर्दण्डं, तृतीयसमये चोर्ध्वदिश्यन्तरालपूरणमधोदिशि तु मन्थाः,चतुर्थसमये तु तत्राप्यन्तरालपूरणालोकव्याप्तिरिति, तन्मतं न युक्तिं क्षमते, अनुश्रेणिगमनस्वभावानां पुद्गलानामेकयैव दिशा गमनं नान्यत्रेत्यत्र नियामकाभावात्, न च वक्तृमुखताल्वादिव्यापाराभिमुख्यमेव नियामकं विश्रेण्यभिमुखे भाषके विश्रेणावपि गमनप्रसगात्, पटहादिशब्दपुद्गलानां वक्तृमुखव्यापारनिरपेक्षतया चतु:समयानियमप्रसङ्गाच्च, न चात्र कश्चिदागमोऽप्यस्ति यबलात्तथाव्याप्तिस्वभावः कल्पयितुं शक्येत।। आह च-"एगदिसमाइसमए, दंड काऊण चउहिं पूरेइ ।। अन्ने भणन्ति, पि य, नागमजुत्तिरकम होइ ॥३९५॥" [एकदिक्कमादिसमये, दण्डं कृत्वा चतुर्भिः पूरयति ॥ अन्ये भणन्ति तदपि च नागमयुक्तिक्षम भवति ॥] ॥ ३२॥ rama पुरणमित्याछ देशस्य वस्तु तोऽनादेशस्य खण्ड नम् ॥ ॥८४॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy