SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ शृणोतीत्यत्र यत्तच्छब्दाभ्यां नियमाभिधानादनियमानुपपत्तेः अपि चोर्ध्वाधोगमनसमय एव भाषा चतुर्दिशमप्यविशेषेण शब्दप्रायोग्यद्रव्याणि पराहत्य द्वितीयसमये मन्थानं साधयतीति त्रिभिरेव समयैस्तस्या लोकव्याप्तिः सम्भवति, न च जीवप्रदेशानामिव भाषाद्रव्याणामपि लोकव्याप्तौ प्रथमसमये दण्डो द्वितीयसमये कपाटं तृतीयसमये मन्थाश्चतुर्थसमये चान्तरालपूरणमिति वाच्यम् || भाषाद्रव्याणां पराघातसम्भवेनोर्ध्वाधोगमनोत्तरं द्वितीयसमये चतुर्दिक्ष्वनु श्रेणिगमनसमये सर्वतः पराघातवासितद्रव्याणां मथिभावेन कपाटव्याघातात् । न चैतेषां लोकव्याप्तौ चतुर्दिक्ष्वनु श्रेणिगमनपराघातस्वभावेभ्योऽधिकं नियामकमस्ति केवली तु द्वितीयसमये केवलज्ञानरूपयेच्छया गुणदोषपर्यालोचनाद् भवोपग्राहिकर्मवशात्स्वभावाद् वा द्वितीयसमये मन्थानं न करोति किन्तु कपाटमेवेति तस्य चतुःसामयिकी लोकव्याप्तिः, अचित्तमहास्कन्धस्तु विस्रसापरिणामेनैव लोकमापूरयतीति द्वितीसमये तस्य कपाटमात्र भावाच्चतुःसामयिकी व्याप्तिर्विासा परिणामस्य पर्यनुयोगानर्हत्वाद्, अथवाऽसौ निजपुद्गलैरेव लोकमापूरवति, नतु पराघातेनान्यद्रव्याणामात्मपरिणामं जनयतीति तस्य चतुःसामयिक्येव व्याप्तिर्निजपुद्गलजन्ये मथि निजपुद्गल - जन्य कपाटस्य हेतुत्वात्तं विना तदभावाद, आह च "न समुग्धायगईए, मीसयसवणं मयं च दंडंमि ॥ जड़ तो वि तीहिं पूरइ, समएहिं जओ 'पराषाओ ।। ३९२ ॥ जइणे ण पराघाओ, स जीवजोगो य तेण चउसमओ || हेऊ होज्जाहि तहिं, इच्छा कम्मं सहावो वा ।। ३९३ ।। खंधो वि वीससाए, ण पराघाओ अ तेण चउसमओ ।। अह होज पराघाओ, हविज तो सो वि तिसमइओ || ३९४ || " [न समुद्घातगत्या, मिश्रकश्रवणं मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समयैर्यतः पराघातः ॥ जैने न पर। घातः, स जीवयोमश्च तेन चतुः समयः ॥ हेतुर्भवेत्तत्रेच्छा कर्म स्वभावो वा ।। स्कन्धोऽपि विवसया न पराघातश्च तेन चतुःसमयः। अथ भवेत्पराघातो जैनसमु दूघातगत्या भाषाद्रव्यै कपूर - मित्यादे शस्याड नादेशत्वख्यापनम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy