________________
सविवरण भीवाना
व
॥८३॥
त्रिसमयो यथा वा ॥ मुक्त्वा त्रिपञ्चसमयांस्तथा चतुःसमय इह निबद्धः] यदि पुनरेवं व्याख्यायते चतुर्भिरपि समयैर्लोको निरन्तरं स्पृष्टो व्याप्तो भवति, तुरप्यर्थ एवानुक्तत्रिपञ्चसमयसमुच्चये, तदेप्सितार्थलाभो न्यायाश्रयणादिप्रयासं विनेति द्रष्टव्यं, तुरेवकारार्थ एव, तस्य च निरन्तरमित्यत्राव्यवहितान्वयो भाषयेत्यस्य च कस्यचित्सम्बन्धिन्या भाषयेति विवक्षितमित्यप्याहुः, लोकस्य च चरमान्ते सर्वलोकव्याप्तिविशिष्टाया भाषायाश्चरमान्तो भवति यदाहुः।। "आपूरियम्मि लोगे दोण्ह, वि लोगस्स तह य भासाए ॥ चरिमंते चरिमंतो, चरिमे समयम्मि सञ्वत्थ ॥ ३९१ ॥" [आपूरित लोके द्वयोरपि लोकस्य तथा च भाषायाः॥ चरमान्ते चरमान्तश्चरमे समये सर्वत्र ॥] अत्र विवक्षयाऽऽदेरप्यन्तत्वाच्चरमग्रहणमिति तु पक्षद्वयेऽपि सम्मुखम् ॥ २९ ॥
अथ जैनसमुद्घातगत्या चतुर्भिः समयैर्भापाद्रव्यैर्लोकः परिपूर्यत इत्यादेशस्यानादेशत्वं ख्यापयितुमाहसर्ववेदिसमुद्घात-गतिरत्र न युज्यते ॥ एकदा षड्दिशां व्याप्तिः, पराघातेन तत्र यत् ॥ ३०॥
जैनसमुद्घातगत्या हि भाषाद्रव्याणां लोकव्याप्तावङ्गीक्रियमाणायां प्रथमसमये ऊर्ध्वाधोगाम्येव दण्डः स्यान्न तु षदिक इति पूर्वपश्चिमदक्षिणोत्तरदिक्षु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासितद्रव्याणामेव श्रवणान्मिश्रशब्दश्रवणं न स्यात् ॥ श्रूयते च-"भासासमसेढीओ, सदं जं सुणइ मीसय सुणइ ॥३५१॥" [भाषासमश्रेणीतः शब्दं यच्छृणोति मिश्रकं शृणोति] इत्यादावविशेषेण सर्वासु दिक्षु मिश्रशब्दश्रवणमेवेति ।। अथ विदिक्षु नियमेन पराघातवासितशब्दश्रवणाभिधानादिक्ष्वनियमेन तत्पर्यवस्यतीत्यनियमोपपादनाय मिश्रशब्दश्रवणं समभिधीयत इत्यूर्वाधोदिशोर्मिश्रश्रवणमन्यासु च दिक्षु पराघातवासितश्रवणमिति व्याख्यानतो विशेषः प्रतिपद्यत इति चेत्, न, यो धूमवान् सोनिमानित्यत्रेव भाषासमश्रेणीतो यं शब्दं शृणोति तं मिश्र
जैनसमुद्घातगत्या भाषाद्रव्यलॊकपूरणमित्यादेशस्यानादेशत्वख्यापनम् ॥
AGARIKARAN
UNSPIRS
॥
३
॥