________________
REAAWAcces
च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादितिीपञ्चमसमये तु पश्चसामयिक्यां व्याप्तौ मन्थान्तरालपूरणात्समस्तलोकव्याप्तिरिति॥ एवं तृतीयचतुर्थपञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा मेसेसु समयेसु' इति । एतच महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण तेषां लोकपूरणाऽसम्भवादिति । अथ यद्युक्तप्रकारेण त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्वाग्द्रव्यैर्लोकः पूर्यते तर्हि चतुर्दशपूर्वविदा श्रुतकेवलिना नियुक्तिकारेण भगवता भद्रबाहुस्वामिना 'चउहिं समएहिं लोगो, भासाए निरंतरं तु होइ फुडो॥ इति किमिति निर्धार्य चतुःसमयग्रहणमेव कृतमिति चेत्, सत्यम् , तुलादण्डग्रहणन्यायेन चतुःसमयग्रहणात् त्रयाणां पञ्चानामपि समयानां ग्रहणस्य नियुक्तिकृता विहितत्वादेव ॥ व्यवहारे यथा तुलादण्डमध्यभागग्रहणेन तदाद्यन्तभागयोरपि ग्रहणं विहितमेव, एवमत्रापि विज्ञेयं, सूत्रेऽप्येवंविधो न्यायो दृश्यते, यतो भगवतः सूत्रस्य विचित्रा प्रवृत्तिः॥ उक्त-"कत्थइ देसग्गहणं, कत्थइ घेप्पन्ति गिरवसेसाई । उक्कमकमजुत्ताई, कारणवसओ णिउत्ताई ॥ ३८८॥" [कुत्रचिद् देशग्रहणं, कुत्रापि गृह्यन्ते निरवशेषाणि ॥ उत्क्रमक्रमयुक्तानि, कारणवशतो नियुक्तानि॥ न चैतादृशदेशनिबन्धः श्रुते न दृष्टो भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिके विग्रहे त्रिसामयिकस्यैव तस्य निबन्धाद, आह च-"चउसमयमझगहणे, तिपंचगहणं तुलाइमज्झस्स ॥ जह गहणे पज्जंत-ग्गहणं चित्ता य सुत्तगई ॥३८७॥" [चतुःसमयमध्यग्रहणे, त्रिपञ्चग्रहणं तुलादिमध्यस्य ॥ यथा ग्रहणे पर्यन्तग्रहणं चित्रा च सूत्रगतिः॥] नयू/धोगतदण्डादन्यद्रव्याणां पराघातो नास्ति ॥ " चउसमयविग्गहे सति, महल्लबन्धमि तिसमयो जह वा ॥ मोत्तुं तिपंचसमए, तह चउसमओ इह णिबद्धो ॥३८९॥" [चतुःसमयविग्रहे सति महाबन्धे
GARCARBHASKAR
( योजितः
पाठः) चतुर्भिस्समयैर्माषाद्रव्यैर्लोकपूरणमितिनियुक्तिकारनिर्धारितचतुस्समयग्रहणतोऽपि त्रिपञ्चसमयव्याप्त्योर्लाभ उपपादितः॥