SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सविवरणं मीबाना (योजितः पाठ) लोकान्तव प्रकरणम्॥ W GRICUCKOCKS बितियसमयम्मि ते चिय, छ इंडा होति छम्मंथा ॥ ३८४ ॥ मंथंतरेहिं तईए, समये पुनेहिं पूरिओ लोगो॥ चउहि समएहि पूरइ, लोगते भासमाणस्स ॥ ३८५॥" [जैनसमुद्घातगत्या, केचिद् भाषन्ते चतुर्मिः समयैः ॥ पूर्यते सकलो लोकोऽन्ये पुननिभिः समयैः ॥ प्रथमसमय एव यतो मुक्तानि यान्ति षट्सु दिक्षु तानि ॥ द्वितीयसमये त एव, षड्दण्डा भवन्ति षड्मन्थानः ॥ मन्थान्तरैस्तृतीये समये पूर्णैः पूरितो लोकः ॥ चतुर्भिः समयैः पूर्यते लोकान्ते भाषमाणस्य॥] इति ।। अथ लोकान्तवर्तिनवसनाडीबहिर्व्यवस्थितस्य वा भाषकस्य भाषाद्रव्यैश्चतुर्भिः समयैलॊकपूरणं प्रतिपादितं त्रसनाडीबहिर्विदिग्व्यवस्थितस्य च पञ्चभिः समयैर्लोकापूरणं भवति तदेतत्सर्वं कथं मिलतीति चेत्, अत्रार्थे सविवरणे भाष्यगाथे एव तत्स्वरूपप्रदर्शिके प्रदश्येते, तथाहि-"दिसिवट्ठियस्स पढमोऽतिगमे तेचेव सेसया तिन्नि ।। विदिसि ट्ठियस्स समया, पंचातिगमम्मि जं दोण्णि ॥३८६॥" व्याख्या-त्रसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यप्रवेशे भवति । शेषसमयत्रयभावना तुं 'होइ असंखेजइमे भागे' इत्यादिवक्ष्यमाणगाथावृत्तौ कथमिति चेदित्यादिना वक्ष्यते । लोकान्तेऽपि स्वयम्भूरमणपरतटवर्तिनि चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्योर्ध्वाधोलोकस्खलितत्वाद्भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, यस्तु समयाः शेषास्तथैव, सनाडीबहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पञ्च समया लगन्तीति विशेषः। कुतः' इत्याह-'अतिगमम्मिजं दोण्णि त्ति' विदिशः सकाशाद्भाषाद्रव्याणि त्रसनाडीबहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः। शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्चसमयाः सर्वलोकापूरणे प्राप्यन्त इति ॥३८६॥ तित्रसनाडी. बहिर्व्यव. स्थितवक्तभाषाद्रव्यैश्चतुस्समौर्लोकपूरणं त्रसनाडीवहिदिस्थितवक्तृभाषया पञ्चसमयै लॊकपूरणमित्युपदर्शनम् ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy