________________
अथ शेषसमयत्रयभावनार्थं ‘होइ असंखेअहंमे भागे ' इत्यादि यदुक्तं तदाह-किश्च नियुक्तिकृता 'लोगस्स य कइभाए कहभाओ होइ भासा' इति यत्प्रतिपादितं तद्वयाचिख्यासुर्भगवान् भाष्यकार आह
" होइ असंखेजइमे, भागे लोगस्स पढमबिइएस || भासा असंखभागो, भयणा सेसेसु समयेसु ।। ३९० ।। " व्याख्या - चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा १, इत्याह- प्रथमद्वितीयसमययोः । इदमुक्तं भवति - त्रिसमयव्याप्तौ चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमयद्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषा संख्येयभागलक्षण एव विकल्पः सम्भवति, नान्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषट्कं भवति, द्वितीयसमये तु पद् मन्थानः सम्पद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात्तत्प्रमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाङ्गुलानि लोका संख्येय भागवर्त्तिन्येव । इति सिद्धविसमयव्याप्तौ प्रथमद्वितीयसमययोर्लोक संख्येयभागे भाषा संख्येयभागः । चतुः समयव्याप्तावप्येतदित्थमवगम्यत एव प्रथमसमये लोकमध्यमात्र एव प्रवेशात्, द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पञ्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषा द्रव्याणां विदिशो दिश्येव गमनात् द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् त्र्यादिसमयव्याप्तौ सर्वत्र प्रथम - द्वितीयसमययोर्लोक संख्येयभागे भाषाया असंख्येयभाग एव भवति । ' भयणा सेसेसु समएसुति' उक्तशेषेषु तृतीयचतुर्थपश्चमसमयेषु भजना विकल्परूपा बोद्धव्या, क्वापि लोकासंख्येयभागे स एव भाषा संख्येयभाग एव भवति,
( योजितः
पाठ: ) भा पाया: त्रि
चतुःपञ्चसमयलोकव्या
तिषु प्रथम
द्वितीयस
मययोर्लो
कासंख्येय
भागे भाषासंख्येयभागस्य
नियमो ऽन्यत्र तु भजनेत्युपपादितम् ॥