________________
(योजितः पाठः) औदारिक
क्रियाहार
कान्यतम
शरीरवान्
भाषकः स.
त्यादिचतु
इति, कायिकेन योगेन भाषापरिणमनयोग्यानि द्रव्याणि प्रथमसमये गृहातीति सामान्येनोपदर्शितं परमत्र औदारिकवैक्रियाहारकतैजसकार्मणभेदेन पञ्चविधेषु कायेषु औदारिकवैक्रियाहारकशरीरेषु जीवप्रदेशाः भवन्ति नान्यत्र, तैर्जीवप्रदेशैर्जीवाभिन्नैर्भाषणाभिप्रायादिसामग्रीपरिणामे सति भाषापर्याप्तिमान् भाषको वाग्द्रव्यनिकुरम्बं गृहीत्वा सत्यां सत्यामृषां मृषां असत्यामृषां चेत्यन्यनमा भाषां भाषते निसृजति, तथा चौदारिकशरीरवान् वैक्रियशरीरवान् आहारकशरीरवान् वा जीवो ग्रहाति मुञ्चति चेति पर्यवसितम्, तदुक्तं नियुक्तिकृता“तिविहम्मि सरीरम्मि, जीव-पएसा हवंति जीवस्स ॥जेहि उगेण्हइ गहणं, तो भासइ भासओ भासं ॥३७४ । ओरालिय वेउब्विय-आहारओ गेण्हइ मुयइ भासं ॥ सच्चं सच्चामोसं, मोसं च असच्चमोसं च ॥३७५।" [त्रिविधे शरीरे जीव-प्रदेशा भवन्ति जीवस्य ।। यैस्तु ग्रहणाति ग्रहणं,ततो भाषते भाषको भाषाम्।। औदारिको वैक्रियआहारकः गृह्णाति मुश्चति भाषाम् । सत्यां सत्यामृषां मृषां चासत्यामृषां च ॥] इति, तत्र सद्धयः साधुभ्यो मुनिभ्यो हिता इहपरलोकाराधकत्वेन मुक्ति
प्रापिका अथवा सद्भयो मूलोत्तरगुणरूपेभ्यो गुणेभ्यो जीवादिपदार्थेभ्यो वाविपरीतयथावस्थितस्वरूपप्ररूपणेन हिता सत्या & भाषा १, विपरीतस्वरूपा तु मृषाभाषा २, तदुभयस्वभावा सत्यामृषा ३, या तूक्तत्रितयलक्षणानन्तर्भाविनी आमन्त्रणाज्ञापना
दिविषयो व्यवहारपतितः शब्द एव केवलः साऽसत्यामृषा ४, एताश्चतस्रोऽपि भाषाः सभेदलक्षणोदाहरणा दशवैकालिकनियुक्त्यादिकसूत्रतोऽवसेयाः, तथा चाह भाष्यकारः "सच्चा हिता सयामिह, संतो मुणओ गुणा पयत्था वा ।। तव्विवरीआ मोसा, मीसा जा तदुभयसहावा ॥ ३७६ ॥ अणहिगया जा तीसु वि, सद्दो च्चिय केवलो असचमुसा । एया सभेयलक्खण-सोदाहरणा जहा सुत्ते।।३७७॥"[सत्या हिता सतामिह, सन्तो मुनयो गुणाः पदार्था वा ॥ तद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा । अनधि
RALIACALCAREERICA
भैदान्यतमभाषां गृह्णा ति मुञ्चतीत्यत्र नियु
क्तिगाथा| संवादः स| त्यादिनिरु
कौ भाष्यसंवादश्च ॥