________________
सविवरणं श्रीज्ञाना र्णव
प्रकरणम् ॥ ॥ ७९ ॥
भवन्ति, अन्तर्मुहूर्तमपि महाप्रयत्नस्य लघु भवति अल्पप्रयत्नस्य तु बृहत्प्रमाणं भवतीति, उक्तार्थसंवादिन्यौ भाष्यस्येमे गाथे" गहणं मोक्खो भासा, समयं गह-निसिरणं च दो समया ॥ होंति जहण्णंतरओ, तं तस्स च बीयसमयम्मि ॥ ३७१ ॥ गहणं मोक्खो भासा, गहणविसग्गा य होंति उक्कोसं ॥ अंतोमुहुतमेतं पयत्तभेएण भेयो सिं ॥ ३७९ ॥ [ ग्रहणं मोक्षो भाषा समर्थ, ग्रह - निसर्जनं च द्वौ समयौ ॥ भवन्ति जघन्यान्तरतस्तत् तस्य द्वितीयसमये । ग्रहणं मोक्षो भाषा ग्रहणविसर्गौ च भवन्त्युत्कर्षतः ।। अन्तर्मुहूर्तमात्रं प्रयत्नभेदेन भेद एषाम् ॥] इति, प्रथमसमये ग्रहणमेव चरमसमये निसर्ग एव, मध्यसमये तु द्वावपि भवतः, एकस्मिन् समये कथं तदुभयं विरोधादिति नाशङ्कनीयम्, यस्यैव यस्मिन् समये ग्रहणं तस्यैव तस्मिन्नेव समये निसर्ग इत्युपगमे स्याद्विरोधः, न चैवमुपगमः, किन्तु प्रथमसमये यस्य ग्रहणं तस्य द्वितीयसमये निसर्गोऽन्यस्य च तदानीं ग्रहणमित्येवमुत्तरोत्तरसमयेऽभ्युपगमे विषयभेदेन विरोधाभावात्, एकस्मिन् समये उपयोगद्वयस्यैवासम्भवो न तु क्रियाद्वयस्य " जुगवं दो नत्थि उवओगा " इतिवचनादागमे उपयोगद्वयस्यैव यौगपद्यनिषेधो न तु क्रियाद्वयस्य, “भंगियसुयं गणतो, वट्टइ तिविहे विज्झामि " इत्यादिवचनेन वाङ्मनः कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव, अगुल्यादिसंयोगविभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पादव्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेष्वागमेऽनुज्ञा विहितैव तथाऽध्यक्षतोऽपि जिनप्रतिमामर्चयतः पुंसः एकस्मिन् समये करणभेदेन घण्टिका चलन धूपदानप्रतिमादिवीक्षणस्तुतिपठनादीनां बह्वीनामपि क्रियाणां युगपत् प्रवृत्तिर्दृश्यत इति ॥ तदाह भाष्यकारः " गहणविसग्गपयत्ता, परोप्परविरोहिणो कहं समए । समए दो उवओगा, न होज, किरियाण को दोसो ॥ ३७३ ॥ " [ ग्रहणविसर्गप्रयत्नौ, परस्परविरोधिनौ कथं समये १ ॥ समये द्वावुपयोगौ न भवेतां क्रियाणां को दोष
( योजितः
पाठ: ) ग्रहणादेर्मघन्योत्कृष्टकालमानोपदर्शने भाष्य
संवादः एक
समये क्रिया
यौगपद्या
विरोधे
भाष्य
संवादश्व
॥ ७९ ॥