SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ GORAKA गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजतीत्येवम्परतया वोपपद्यत इति, तमिममर्थ प्रतिपादयति भाष्यगाथाचतुष्टयं यथा"आह, सुए च्चिय निसिरइ, संतरियं न उ निरंतरं भणियं ॥ एगेण जओ गिण्हइ, समयेणेगेण सो मुयइ ॥३६७।। अणुसमयमणं- तरियं, गहणं भणियंजओ विमुक्खो वि ॥ जुत्तो निरंतरो च्चिय, भणइ, कह संतरो भाणओ ॥३६८॥ गहणावेक्खाए तओ, निरंतर जम्मि जाई गहियाई न वि तम्मि चेव निसिरइ, जह पढमे निसिरणं नत्थि ॥३६९।। निसिरिजइ नागहियं, गहणतरियंति संतरं तेणं ॥ न निरंतरंति न समयं, न जुगवमिह होति पजाया ॥ ३७० ॥" [आह, श्रुत एव निसृजति, सान्तरितं न तु निरन्तरं भणितम् ॥ एकेन यतो गृणाति, समयेनकेन स मुश्चति ॥ अनुसमयमनन्तरितं, ग्रहणं भणितं यतो विमोक्षोपि ॥ युक्तो निरन्तर एव, भणति कथं सान्तरो भणितः१॥ ग्रहणापेक्षया तको, निरन्तरं यस्मिन्यानि गृहीतानि ॥ नापि तस्मिन्नेव निसृजति, यथा प्रथमे निसर्जनं नास्ति ॥ निसृज्यते नाऽगृहीतं, ग्रहणान्तरितमिति सान्तरं तेन ॥ न निरन्तरमिति न समय, न युगपदिह भवन्ति पर्यायाः॥]इति, ग्रहणादेजघन्यमुत्कृष्टश्च कालमानमेवं प्रतिपत्तव्यं, तथाहि-ग्रहणनिसर्गभाषा इत्येवं त्रीण्यपि प्रत्येक जघन्यत एकसमयानि भवन्ति, ग्रहणनिसर्गोभयन्तु प्रथमसमये ग्रहणं द्वितीयसमये निसर्ग इति कृत्वा द्विसमयम, निसर्गादभेदेऽपि भाषाया भाष्यमाणैव भाषा न तु गृह्यमाणेति निसर्गस्यैव भाषात्वं न तु ग्रहणनिसर्गोभयस्येत्येतत्प्रतिपत्तये पृथगभिधानं, उभयस्य भाषात्वे द्विसमयत्वापत्तिः, ग्रहणस्य तु भाषाव्युत्पत्तिनिमित्ताभावादेव न भाषात्वं, भाषायाः पृथगग्रहणे तु कश्चित्तदुभयस्यापि योग्यतया भाषात्वं प्रतिपद्येत, तत्र 'भासिजमाणा भासा' इत्यागमविरोधः, निसर्गभाषयोरभेदेऽपि मन्दधियः निसर्गकालमानानुक्तिभ्रमोन्मूलनार्थ निसर्गस्यापि पृथग्वचनम्, सर्वाण्यप्येतानि उत्कृष्टतः प्रत्येकमन्तर्मुहूर्वकालं ( योजितः पाठः) अनुसमय गृहाति मुच तीत्येतत्संवादकं भाष्यवचनं ग्रहणादेर्जघन्य मुत्कृष्टश्च कालमानमुपपादितम् ॥ R १४ E
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy