SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ LARS त्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासम्भवात, कुब्यादिप्रतिघाततोऽपि न तेषां विदिक्षु गमनमतिसूक्ष्मत्वात, लेष्ट्रादिवादरद्रव्याणामेव ततो विदिक्षु गमनात्, निसर्गसमयानन्तरश्च समयान्तरेषु तेषां भाषापरिणामेनानवस्थानादेव न स्वतो विदिक्ष गमनसम्भवः "भाष्यमाणैव भाषा भाषा, भाषासमयानन्तरं भाषाऽभाषेव" इतिवचनात्, द्वितीयादिसमयेषु भाषाद्रव्यैर्वासितानि समुत्पन्नशब्दपरिणामानि द्रव्यान्तराण्येव भाषा तामुपादायैव " चउहि समयेहि लोगो भासाए निरंतरं तु होइ फुडो" इति वचनप्रवृत्तिरविरुद्धा, समश्रेणिव्यवस्थितः श्रोता वक्तृनिसृष्टं शन्दं शृणोति, विश्रेणिस्थः तद्वासितानि द्रव्याणि द्वितीयसमये विदिक्षु गतानि शब्दस्वभावमापन्नानि शृणोतीत्येवं समयभेदेऽपि तदनुपलक्षणमतिसौक्ष्म्यात् । घ्राणादीन्द्रियग्राह्याणां मिश्रस्वभावानां गन्धादिद्रव्याणां बादरत्वेनानुश्रेणिगमननियमो नास्तीति, तदुक्तं नियुक्तिकृता "भासासमसेढीओ, सई जं सुणइ मीसयं सुणइ । वीसेढी पुण सई, सुणेइ नियमा पराघाए ॥३५१॥" इति, भासासमसेढीओ इति गाथार्थोपोलकं भाष्यगाथात्रयं यथा “सेढी पएसपंती, वदतो सव्वस्स छद्दिसिं ताओ । जासु विमुक्का धावइ, भासा समयम्मि पढमम्मि ॥ ३५२ ॥ भासासमसेढिठिओ, तम्भासामीसियं सुणइ सदं ॥ तद्दव्वभावियाई, अण्णाई सुणइ विदिसत्थो ॥ ३५३ ॥ अणुसेढीगमणाओ, पडिधायाभावओऽनिमित्ताओ ॥ समयंतराणवत्था-णओ य मुक्काई नसुणेइ ॥३५॥" [भाषासमश्रेणीतः, शब्दं यं शृणोति मिश्रकं शृणोति । विश्रेणिः पुनः शब्द, शृणोति नियमात्पराधाते ॥श्रेणिः प्रदेशपंक्तिर्वदतः सर्वस्य षट्सु दिक्षु ताः॥ यासु विमुक्तो धावति भाषासमये प्रथमस्मिन् ॥ भाषासमश्रेणिस्थितस्तद्भाषामिश्रितं शृणोति शब्दम् ॥ तद्व्यभावितान्यन्यानि, शृणोति विदिकस्थः ॥ अनुश्रेणिगमनात्प्रतिघाताभावादनिमित्तात् ॥ समयान्तरानवस्थानाच मुक्तानि न शृणोति ॥ ] ॥ इति ॥ व्यक्तार्थमदः॥ AASARGICARK (योजितः पाठः) श्रोत्रविषय शब्दतो घाणादिया. ९ ह्यगन्धादीना मनुश्रेणिगमननियमाभावो विशेष उपपादितः।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy