________________
किश्च देहस्यात्मभूतान्यपीन्द्रियाणि सर्वाणि नोच्छ्रयाङ्गुलेन मीयन्ते यदा तदा कैव कथा तद्विषयाणामुच्छ्रया ङ्गुलमेयत्वस्य, यतः स्पर्शनेन्द्रियमेकमुच्छ्रयाङ्गुलेन मीयते शेषाणि तु द्रव्येन्द्रियाण्यात्माङ्गुलेनैव मीयन्ते, त्रिगन्यूतादिमानानां युगलधर्मिणां जिह्वेन्द्रियादिमानस्योच्छ्रयाङगुलेन ग्रहणे क्षुरप्राकारतयोक्तस्य जिह्वेन्द्रियस्य विशालदेहानुसारित्वेन विशालमुखगतत्वेन विशालस्याङ्गुल पृथक्त्वलक्षणो विस्तारो गृह्येत, एवञ्चात्यल्पतया सर्वामपि जिह्वां न व्याप्नुयात्, तदव्याप्तौ च सर्वया जिह्वया रसवेदनलक्षणो व्यवहारो न घटेत, तस्मादात्मागुलेनैव जिह्वादिमानं घटत इति, तदुक्तं भाष्यकृता "इंदियमाणेवि तयं, भयणिज्जं जं तिगाउआई || जिभिदियाइमाणं, संववहारे विरुज्झेज्जा ॥ ३४३ ||” [इन्द्रियमानेऽपि तद् भजनीयं यत् त्रिगव्यूतादीनाम् । जिह्वेन्द्रियादिमानं संव्यवहारे विरुध्येत ।। ] इति, चक्रवर्ति भरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य युगलधर्मिणां रसवेदनव्यवहारस्य चाभावप्रसङ्गेनेन्द्रिय विषय परिमाणस्येन्द्रियपरिमाणस्य नोच्छ्रयाङ्गुलमेयत्वं किन्त्वात्माङ्गुलमेयत्वमेवेति व्यवस्थितौ " उस्सेह पमाणओ मिणे देह" इत्यत्र देहशब्देन देहमानमेव पारिशेष्याद् गृह्यते, किञ्च परस्येन्द्रियतद्विषयपरिमाणयोरुच्छ्रयाङ्गुलमितत्वेऽर्थापत्तिरेव प्रमाणं न त्वागमवचनं, आगमे तु “ इच्चेएणं उस्सेहंगुलप्पमाणेणं नेरइअ - तिरिक्खजोणिय - मणुस्स - देवाणं सरीरोगाहणाओ मिअंति " [ इत्येतेनोच्छ्रयाङ्गुलप्रमाणेन नैरयिकतिर्यग्योनिकमनुष्यदेवानां शरीरावगाहना मीयन्ते ] इत्यस्मिन् शरीरावगाहनैवोच्छ्रयाङ्गुलमेयत्वेनोक्ता न त्विन्द्रियविषयपरिमाणं, ततस्तदात्माङ्गुलेनैवेति, तदाह भाष्यकृत् - " तणुमाणं चिय तेणं, हविज भणियं सुए वि तं चैव ॥ एएण देहमाणाई, नारयाईण मिजंति ।। ३४४ ॥" [ तनुमानमेव तेन भवेद् भणितं श्रुतेऽपि तदेव ॥ एतेन देहमानानि, नारकादीनां मीयन्ते ॥] इति । ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्य अवग्भागवर्ति
( योजितः
पाठ: ) देहस्पर्शने - न्द्रिययोरेवोत्सेधाङ्गु
लमेयत्व
मन्येन्द्रिय
तद्विषया
णामात्माङ्गु
लभ्यत्वं
व्यवस्थापितम् ॥