________________
सविवरणं| श्रीज्ञाना
12
र्णव
प्रकरणम्॥
MONISHALAUR
प्रमाणत्वं सिद्धमेव, देहग्रहणस्योपलक्षणत्वात्तत्रस्थमिन्द्रियं तद्विषयश्च गृह्यत इति चक्षुषस्तद्विषयस्य चोच्छ्याङ्गुलप्रमाणमेयत्वे. नात्माङ्गुलेन नयनविषयपरिमाणकथनमयुक्तमिति चेत्,न, देहग्रहणस्योपलक्षणार्थत्वास्वीकारेण देहस्यैवोच्छ्याङ्गुलप्रमाणमेयत्वे. नेन्द्रियविषयपरिमाणस्यात्माङ्गुलेनैव मेयत्वात, तदुक्तं भाष्यकृता"नणु भणियमुस्सयंगुल-पमाणओ जीवदेहमाणाइ ।। देहपमाणं चिय तं, न उ इंदियविसयपरिमाणं ॥३४१॥" [ननु भणितमुच्छ्या -गुलप्रमाणतो जीवदेहमानानि ॥ देहप्रमाणमेव तद्, न त्विन्द्रियविषयपरिमाणम् ] इति, युज्यते चेन्द्रियविषयपरिमाणमात्माङ्गुलेनैव, न तु उच्छ्याङ्लेन, यतः पश्चार्धपञ्चमधनु:शतादिप्रमाणानां भरतादीनां चायोध्यादिनगर्यः स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निीताः, भरतचक्रवाद्यात्मागुलं च प्रमाणाङ्गुलं तद् उच्छ्याङ्गुलात्सहस्रगुणं " उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं" इति वचनात्, ततश्चायोध्यादिनगर्यः स्कन्धावारश्च उत्सेधाङ्गुलेन पुनरनेकानि योजनसहस्राणि भवन्ति, एवञ्चायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषामिन्द्रयविषयस्योछ्याङ्गुलमेयत्वपक्षे न प्रामोति, यतः श्रोत्रं "बारसहिं जोअणेहिं, सोयं अभिगिण्हए सई" इत्यादिवचनात् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति न परतः, उक्तपक्षे च एतानि द्वादशयोजनानि | किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात्, इष्यते
च भरतादिनगरीस्कन्धावारेषु तच्छ्रवणम्,अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेतिसिद्धम् , तदुक्तं भाष्यकता "जं तेण पंचधणुसयनराइ-विसयववहारवोच्छेओ॥ पावइ सहस्सगुणियं, जेण पमाणंगुलं तत्तो ॥३४२ ॥" [ यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः ॥ प्रामोति सहस्रगुणितं, येन प्रमाणाङ्गुलं ततः॥] इति ।।
AHABHAIBAREIGNERASHIOS
BI (योजितः
पाठः) तृतीयस्तरङ्गः देहम्योत्सेधाङ्गलप्रभाणत्वाद्देहस्थत्वेनेन्द्रियाणां तद्वि
षयस्य च तन्मेयत्व
मेवोचितमित्यारेकाया युक्त्यादिभिरपाकरणम् ॥ ॥७३॥