SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ न्येव गृह्णाति,शब्दद्रव्याणि यत्तानि। आत्माहगुलेन लक्षमतिरिक्तं योजनानां तु ॥ बहुसूक्ष्मभावुकानि यत्पटुतरं च श्रोत्रविज्ञानम् ॥ गन्धादिद्रव्याणि विपरीतानि यतस्तानि ॥ स्पर्शानन्तरमात्मप्रदेशर्मिश्रीकृतानि गृह्यन्ते ॥ पटुतरविज्ञानानि यच न घ्राणादिकरणानि ॥] इति ॥ स्पष्टाश्चेमा माथाः । नयनं मनश्चाप्राप्तस्यैव वस्तुनः परिच्छेदकारि, तेन नयनं रूपमस्पृप्टमेव पश्यति, नयनस्य चात्मागुलेन सातिरेकं योजनलक्षमुत्कृष्टतोऽपि विषयपरिमाणमागमेऽभिहितं, तेनाप्राप्तत्वाविशेषेऽपि परतो न पश्यति, आत्माङ्गुलोच्छ्याङ्गुलप्रमाणागुलभेदेनाङ्गुलं त्रिविधं । तत्राचं “जेणं जया मणूसा, तेसि जं होइ माणरूवं तु ॥ तं भणियमिहायंगुल-मणिययमाणं पुण इमं तु ॥१॥" द्वितीयं तु "परमाणू तसरेणू , रहरेणू अग्गयं च वाल- | स्स ।। लिक्खा जूया य जवो, अडगुणविवडिया कमसो ॥२॥” इत्यादिग्रन्थोक्तम्, तृतीयं तु-"उस्सेहंगुलमेगं, हवइ पमाणगुलं सहस्सगुणं॥तंचव दुगुणियं खलु, वीरस्सायंगुलं भणियं ॥३॥आयंगुलेण वत्थं, उस्सेहपमाणओ मिणसु देहानग-पुढवि-विमाणाई, मिणसु पमाणंगुलेणंति॥४॥ [ये यदा मनुष्यास्तेषां यद् भवति मानरूपं तु तदभणितमिहात्माश्गुल-मनियतमानं पुनरिदं तु।।परमाणुखसरेणू, रथरेणुरग्रकं च वालस्य।।लिक्षा युका च यवोऽष्टगुणविवर्धिताःक्रमशः।। उत्सेधागुलमेकं,भवति प्रमाणागुलं सहस्रगुणम्॥ तदेव द्विगुणितं खलु, वीरस्यात्मागुलं भणितम्।। आत्माल्गुलेन वस्तु, उत्सेध(धागुल)प्रमाणतो मिनु देहम्।। नगपृथ्वीविमानानि, मिनु प्रमाणागुलेनेति ।।] उक्तोपपत्तिप्रदर्शिका च भाष्यगाथा यथा-"अप्पत्तकारि नयणं, मणो य, नयणस्स विसयपरिमाणं॥ आयंगुलेण लक्खं, अइरितं जोयणाणं तु ॥ ३४०॥" [अप्राप्तकारि नयनं मनच, नयनस्य विषयपरिमाणम् । आत्मागुलेन लक्षमतिरिक्तं योजनानां तु ॥] इति ॥ ननु" उस्सेहपमाणो मिणे देहं" इतिवचनादेहस्य तावदुच्छ्याङ्गुल (योजितः पाठः) मतिज्ञानविषयमान| निरूपणप्र| स्तावेऽङ्गुलभेदत्रिकस्य तदूगोचर स्य च प्रदर्शनम्।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy