SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सविवरणं श्रीज्ञाना र्णवप्रकरणम् ॥ ॥ ७० ॥ मात्रं, तस्मात्तस्य संशयादिकालेऽपि मौलज्ञानोपयोगयोगादप्रत्यूहमेव ज्ञानमिति । तदाह - "अहवा जहिंदनाणो- ओगओ तम्मयत्तणं होई ।। तह संसयाइभावे, नाणं नाणोवओगाओ ॥ ३२५॥।" [ अथवा यथेन्द्रज्ञानोपयोगतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात् ] मिथ्यादृशस्तु निर्णयकालेऽपि सम्यग्दर्शनाविनाभाविज्ञानोपयोग योर (स्या) भावादज्ञानमेव, उपयोगग्राहिणा नयेन तत्कार्यान्तरमनपेक्ष्य तदुपयोगेनैव तन्मयत्वव्यवस्थापनादिन्द्रपदार्थ परमैश्वर्यमनपेक्ष्यैवेन्द्रोपयोगवत इन्द्रत्वाभ्युपगमात् । तदाह - " तुल्लमिणं मिच्छस्स वि, सो सम्मत्ताइभावसुन्नोत्ति ।। उवओगंमि वि तो तस्स, णिच्चमन्नाणपरिणामो || ३२६ || जं निनओवओगे वि, तस्स विवरीयवत्थुपडिवत्ती । तो संसयाइकाले, कत्तो नाणोवओगो से || ३२७|| ” [तुल्यामिदं मिथ्यादृष्टेर पि स सम्यक्त्वादिभावशून्य इति । उपयोगेऽपि ततस्तस्य नित्यमज्ञान परिणामः ॥ यन्निर्णयोपयोगेऽपि तस्य विपरतिवस्तुप्रातिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ।।] ।। १९ ।। तदेवं साधितमभ्युपगम्यानिश्रितादीनां संशयादिरूपत्वेऽपि सम्यग्दृशां ज्ञानत्वम्, अथ सामान्यतो ज्ञानाज्ञानरूपाया एव मतेर्निरूपणीयत्वान्न किञ्चिद्दष्यतीत्याह सामान्यतो निरूप्यत्वा-न्मतेः कापि न च क्षतिः । ज्ञानाज्ञानविभागस्तु ज्ञेयो फलविभागतः ॥ २० ॥ इह हि 'आभिणिबोहियनाणं, सुअनाणं च' इत्यादिगाथायां श्रुतज्ञानं तावद् योगार्थमात्र पुरस्कारेण ज्ञानज्ञानोभयसाधारणमेव निर्दिष्टमिति, यथा-'अक्खरसन्भीसम्म' इत्यादिनाऽभिधास्यमानेषु चतुर्दशसु तद्भेदेषु मिथ्या श्रुतस्यैषां ग्रहप्रसङ्गाद् एवं च मतिज्ञानमपि सङ्ग्रहलाघवाद् ज्ञानाज्ञानोभयसाधारणमेवोक्तमिति सम्यग्दृष्टिसम्बन्धिनां संशयादीनामज्ञानत्वेऽपि न क्षतिरिति। तदाह"अहवा जह सुयनाणा - वसरे सामन्नदेसणं भणिअं || तह मइनाणावसरे, सन्त्रमइनिरूवणं कुणइ || ३२८||” [ अथवा यथा श्रुतज्ञा तृतीयस्तरङ्गः मतिज्ञाननिरू पणप्रस ड्रेन सम्य ग्दृशामुपयो गप्रकारेण ज्ञानत्वं मि यादृशां चाज्ञानत्वमितिसमर्थितम् ॥ ।। ७० ।।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy