________________
SUDAN+335
त्वात् , न च निर्वचनेनैव विशेपान्तर्भाव इति शङ्कनीयं, मिथ्यादृष्टिसूत्रानुरोधेन तत्र विशेषान्तर्भावावश्यकत्वात् , न च मोक्ष- ४॥ मतिज्ञानहेतोः सम्यग्दर्शनविशिष्टज्ञानस्य सम्यग्दृष्टो विशेष्यशङ्काप्रयुक्तशङ्कया प्रश्नस्तन्निर्वचनश्च सङ्गच्छेते इति वाच्यम्, सम्यग्- प्ररूपणाप्रदर्शनविशिष्टज्ञानत्वेन मोक्षाहेतुत्वाद्विशिष्टज्ञानत्वेनैव तथात्वात्सामान्यपदेन विशेषप्रश्नानौचित्याच्च, अपि च सम्यग्दृष्टिसूत्रस्थप्र- सो सम्यनवाक्यद्वये ज्ञानपदस्यैकरूपस्यैव निवेशात्कथं निर्वचनसूत्रयोविशेषगर्भवं प्रश्नसमानाकारस्यैवोत्तरस्य युक्तत्वात् , नहि भूतले ४ दृशां संशघटोस्ति नवेति प्रश्ने भूतले नीलघटोऽस्तीत्युत्तरमुदश्चन्ति विपश्चितः, एवश्च स्वस्थितशङ्काविरहेऽपि शिष्यजिज्ञापयिषोत्थापित. यादीनामपि शङ्कया प्रश्न इत्युक्तिरपि न युक्तेति चेत, न,सम्यगदर्शनविशिष्टज्ञानस्यैव मोक्षौपयिकतया नैश्चयिकज्ञानत्वात्प्रश्ननिर्वचनवाक्ययोस्तु ज्ञानत्वं मिसामान्यपदगर्भयोरपि विशेषाभिप्रायप्रयुक्ततया विशेषे पर्यवसानात, तथाहि, निश्चयाभिप्रायेण सम्यग्दृष्टिानी नवेति प्रयुक्तस्य ४थ्यादृशांचाप्रश्नवाक्यस्य सम्यग्दृष्टिर्मोक्षौपयिकज्ञानवान वेत्यर्थात् ततः सम्यग्दृष्टिान्येवेति निर्वचनवाक्यस्य सम्यग्दृष्टिर्मोक्षौपयिकज्ञान- ज्ञानत्वमिवानेवेत्यर्थात् यदभिप्रायेण प्रश्नस्तदभिप्रायेणैवोत्तरप्रदानात्, एवं मिथ्यादृष्टिसूत्रेऽपि भावनीयं, न च विशेषाभिप्रायेणापि प्रयुक्तात ति युक्त्यसामान्यपदान्न विशेषोपस्थितिरिति शङ्कनीयं, भोजनाभिप्रायेण सैन्धवप्रश्ने तदुत्तरवाक्यस्थसैन्धवपदाल्लवणानुपस्थितिप्रसङ्गा- न्तरेणाप्युदिति दिग् ॥१८॥ अथ प्रकारान्तरेण संशयादिकालेऽपि सम्यग्दृशो ज्ञानं मिथ्यादृशश्च निर्णयकालेऽप्यज्ञानं समर्थयति
पपादनम् ।। सम्यग्दृशः संशयो वा, ज्ञानं ज्ञानोपयोगतः ॥ मिथ्यादृशां किलाज्ञानं, सर्वो बोधस्तमन्तरा ॥१९॥
सम्यग्दृशः संशयः, उपलक्षणाद्विपर्यासानध्यवसायौ च ज्ञानमेव ज्ञानोपयोगात्, 'यो यदुपयुक्तः स तन्मयो' यथेन्द्रज्ञानोपयुक्तो दरिद्रोऽपीन्द्र एव, वर्तते च सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभात्सम्यग्दृशः सर्वदैव ज्ञानपरिणामरूपज्ञानोपयोग