________________
2
-
4
सम्यग्दृष्टिः सर्वदा ज्ञान्येव, आह च-"एगं जाणं सव्वं, जाणइ, सव्वं च जाणमेगंति ॥ इय सब्वमयं सव्वं सम्मदिद्विस्स जं वत्थु ॥३२०॥ [एक जानन्सर्व जानाति सर्व च जाननेकमिति ॥ इति सर्वमयं सर्व सम्यग्दृष्टेः यद्वस्तु] ॥१७॥ तस्मातत्त्वाभ्युपगमविशिष्टस्य ग्रहणमात्रस्यैव ज्ञानत्वात्स्थाणौ व्यावृत्तिरूपाणामपि पुरुषत्वादिपर्यायाणां पररूपतया ग्रहेऽपि अनन्तपर्यायस्यापि वस्तुनः प्रयोजनवशादेकपर्यायग्रहेऽपि याथात्म्याभ्युपगमस्य निरुपप्लवत्वात्सम्यग्दृशो न ज्ञानं प्रच्यवत इत्याह
तत्त्वोपगममाहात्म्यान, ज्ञानमेवास्य संशये ॥ प्रयोजनवशादेक-पर्यायग्रहणेऽपि च ॥१८॥
न खलु व्यवहारमात्रेणाज्ञानरूपा अपि सम्यग्दृशः संशयादयो निश्चयतो न ज्ञानं, तत्त्वोपगमविशेषितवस्तुधर्मग्रहणस्य तत्रान| पायासिद्धान्तनियन्त्रितेन समभिरूढनयेनैवम्भूतार्थाबाधेन तादृशस्यैव ज्ञानस्याभ्युपगमाद्,नचैकपर्यायमात्रग्रहे वस्तुनोऽन्यथाग्रहात्तस्याज्ञानित्वप्रसङ्गः, यतः प्रयोजनवशादनन्तधर्मात्मकेपि वस्तुनि यद्यप्यसावेकं पर्यायमासादयति यथा सौवर्णघटे दृष्टे घटार्थी घटत्वमध्यवस्यति सुवर्णार्थी तु सुवर्णत्वं जलानयनार्थी तु जलभाजनत्व मिति व्यवस्यति, उपलक्षणं चेदं, अभ्यासपाटवप्रत्यासत्यादिभिरपि पर्यायविशेषग्रहाद् यथा ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् भिक्षुकोऽयमिति जानाति, अन्यस्तु पाटववशाद् ब्राह्मणोऽयमिति, अपरस्तु यस्तदभ्यर्णे भणति स प्रत्यासत्तिवशान्मदुपाध्यायोऽयमिति, तथापि तदानीं तस्य भावतोऽनन्तपर्यायात्मकतया वस्तुग्रहणपरिणामो न क्षीयत इति, तदाह-"जे संसयाइगम्मा, धम्मा वत्थुस्स ते वि पज्जाया ॥ तदहिगमत्तणओ ते, नाणं चिय संसयाईआ॥ ३२१॥ पज्जायमासयन्तो, एक पि तो पओअणवसाओ ।। तत्तियपज्जायं चिय, तं गिण्हइ भावओ वत्थु ॥३२२ ॥" [ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि पर्यायाः ॥ तदधिगमत्वतस्ते ज्ञानमेव संशयादयः॥
मतिज्ञाननिरूपणप्रसङ्गे सम्यग्दृशां संश
यादयोऽपि ज्ञानमित्युपपादनम् ॥
SARASWACES
हाइ यथा ब्राह्मणे द्वारपालभाजनत्व मिति व्य
३ ब्राह्मणोऽयमिति,
GUREGISEKASS